SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ 900 सिद्धहैमबृहत्मक्रिया. [ज्ञत्तरकृदन्त द्वितीयान्तेन कालवाचिना योगे धातोः संवन्धे णम् वा स्यात् / व्यहं तर्प व्यहतर्ष गावः पिबन्ति / अहमत्यासं यहात्यासं गावः पिबन्ति / तृष्यस्व इति किम् / यहमुपोष्य भुङ्क्ते / क्रियान्तर इति किम् / अहरत्यस्येवून गतः / इहात्यासेनाहरिषवश्व व्याप्यन्ते न तु गतिक्रिया व्यवधीयते / 1228 नाम्ना ग्रहादिशः // 5 // 4 / 83 // नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तेकेऽर्थे वर्तमानाद् ग्रहेरादिशश्च धातोः संबन्धे णम् वा स्यात् / नामानि ग्राहं नामग्राहमादयति / नाम्नी देवदत्तो ग्राहम् नामग्राहं देवदत्त आह्वयति / नामान्यादेशं नामादेशं ददाति / पक्षे नाम गृहीखा दत्ते। नामादिश्य दत्ते / 1229 कृगोऽव्ययेनिष्टोक्तौ क्त्वाणमौ // 5 / 4 / 84 // अव्ययेन योगे करोतेस्तुल्यकर्तृकेऽथै वर्तमानादनिष्टायामुक्तौ गम्यमानायां धातोः संबन्धे क्त्वाणमौ स्याताम् / ब्राह्मण पुत्रस्ते जातः किंतर्हि वृषल नीचैःकृत्वा नीचैःकृत्य कथयसि / किंतर्हि नीचैर्वृषल कारं वृषल नीचैःकारं कथयसि / उच्चै म प्रियमाख्येयम् / ब्राह्मण कन्या ते गर्भिणी, किं तर्हि वृषल उच्चैःकृत्वा उच्चैःकृत्य कथयसि। किंतर्हि उच्चैपल कारं वृषलोचै;कारं कथयसि / नीचैर्नामाभियमाख्येयम् / अनिष्टोक्ताविति किम् / उचैःकृताचष्टे ब्राह्मण पुत्रस्ते जात इति / नीचैःकृताचष्टे ब्राह्मण कन्या ते गर्भिणी जातेति / अव्ययेनेति किम् / ब्राह्मण पुत्रस्ते जातः, किंतर्हि वृषल मन्दं कृता कथयसि / ब्राह्मण कन्या ते गर्भिणी जातेति किं तर्हि वृषल तारं कृता कथयसि / वाधिकारेणैव पक्षे तबायाः सिद्धौ समासाथै तद्विधानम् / अन्यथा हि णम एव पाक्षिकः समासः स्यात् न तु क्वः / त्वा चेत्यकृत्वा णविधानमुत्तरत्रोभयानुवृत्त्यर्थम् / 1230 तिर्यचापवर्गे // 5 // 4 / 85 // अपवर्गः क्रियासमाप्तिः समाप्तिपूर्वको वा विरामः त्यागो वा। तस्मिन् गम्यमाने तिर्यच् इत्यनेनाव्ययेन योगे करोतेस्तुल्यकर्तकेऽर्थे वर्तमानाद् धातोः संबन्धे क्त्वाणमौ प्रत्ययौ स्याताम् / तिर्यकृत्वा तिर्यकृत्य तिर्यकारमास्ते / समाप्य विरम्य वा उत्सृज्य वास्ते इत्यर्थः / अपवर्ग इति किम् / तिर्यक्कृत्वा काष्ठं गतः। 1231 स्वागतश्व्यर्थे नानाविधार्थेन भुवश्च / / 5 / 4 / 86 / / स्वाङ्गमुक्तलक्षणम् / तस्प्रत्ययान्तेन च्व्यर्थवृत्तिभिर्नानाविनाभ्यां धार्थमत्ययान्तैश्च योगे भुवः कृगश्च तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः संबन्धे क्वाणमौ स्याताम् / वचनभेदा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy