________________ 899 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 1224 स्वाङ्गेनाध्रुवेण // 5 // 4 // 79 // अविकारोऽद्रवं मूर्तमित्यादिलक्षणं स्वाङ्गम् / यस्मिन्नने छिन्ने भिन्ने वा पाणी न म्रियते तदध्रुवम् / अध्रुवेण स्वाङ्गेन द्वितीयान्तेन योगे धातोस्तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः संबन्धे णम् वा स्यात् / भ्रवौ विक्षेपं भूविक्षेयं जल्पति / अक्षिणी निकाणमक्षिनिकाणं हसति / केशान् परिधायं केशपरिधायं नृत्यति / प्रतिमायाः पादावनुलेपं पादानुलेपं प्रणमति / पक्षे भ्रुवौ विक्षिप्य जल्पति इत्यादि / स्वाङ्गेति किम् / कफमुन्मूल्य जल्पति / अध्रुवेणेति किम् / शिर उत्क्षिप्य कथयति / 1225 परिक्लेश्येन // 5 / 4 / 80 // परि समंतात् क्लिश्यमानं पीड्यमानं परिक्लेश्यम् / तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातो. र्धातोः संबन्धे णम् वा स्यात् / ध्रुवार्थोऽयमारंभः। उरांसि प्रतिपेषमुर प्रतिपेषं युद्धयन्ते / शिरांसि च्छेदं शिरच्छेदं युध्यन्ते / उरांसि परितः पीडयन्तः शिरांसि छिन्दन्तो युद्धयन्ते इत्यर्थः / पक्षे उरांसि प्रतिपिष्य शिरांसि छित्त्वा / __ 1226 विशपतपदस्कन्दो वीप्साभीक्ष्ण्ये // 5 / 4 / 81 // श्रुतत्वात् विश्यादिक्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा वीप्सा / प्रकृत्यर्थस्य पौनःपुन्येनासेवनमाभीक्ष्ण्यम् / यदाहुः-मुप्सु वीप्सा तिषु अव्ययकृत्सु चाभीक्ष्ण्यमिति / द्वितीयान्तेन योगे विशादिभिस्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने धातोः संबन्धे सति गम् वा स्यात् / गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते / गेहमनुमवेशमनुप्रवेशं गेहानुप्रवेशमास्ते / गेहंगेहमनुप्रपातं गेहानुप्रपातमास्ते / गेहमनुप्रपातमनुपपातं गेहानुपपातमास्ते / गेहंगेहमनुप्रपादं गेहानुपपादमास्ते / गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते / गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते / गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते / पक्षे गेहं गेहमनुपविश्यास्ते / गेहमनुप्रविश्यानुपविश्यास्ते इत्यादि / वीप्सायामुपपदस्याभीक्ष्ण्ये तु धातोखिम् / गेहानुप्रवेशमास्ते इत्यादौ तु वीप्सामीक्ष्ण्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते इति द्विवचनं न भवति। आभीक्ष्ण्ये णम् सिद्ध एव / विकल्पेनोपपदसमासार्थ वचनम् / तेन हि समासाभावः स्यात् / वीप्साभीक्ष्ण्य इति किम् / गेहमनुपविश्यास्ते। 1227 कालेन तृष्यस्वः क्रियान्तरे // 5 // 482 // क्रियामन्तरयतीति क्रियान्तरः क्रियाव्यवधायकः / तस्मिन्नर्थे वर्तमानाभ्यां तृष्यसूभ्यां धातुभ्यां