________________ 896 सिद्धहेमबृहत्प्रक्रिया. [ उत्तरकृदन्त उदपेषं पिनष्टि / एवं घृतपेषम् तैलपेषं क्षीरपेषम् / उदकादिना पिनष्टीत्यर्थः / . 1211 हस्ताद ग्रहवर्तितः // 5 // 4 // 66 // हस्तार्थात् करणवाचिनः शब्दात् परेभ्यो ग्रहवर्तिद्भयस्तस्यैव धातोः संबन्धे सति णम् वा स्यात् / हस्तग्राहं गृह्णाति / एवं करग्राहम् / पाणिग्राहम् / हस्तेन गृह्णातीत्यर्थः / वर्तित इति वर्ततेर्ण्यन्तस्याण्यन्तस्य च ग्रहणम् / हस्तवतं वर्तयति / करवर्तम् / पाणिवर्तम् / हस्तेन वर्तयतीत्यर्थः। हस्तवर्त वर्तते / करवर्तम् / पाणिवर्तम् / हस्तेन वर्तत इत्यर्थः / अण्यन्तान्नेच्छन्त्येके / 1212 बन्धेर्नानि // 5 / 4 / 67 // बन्धेरिति प्रकृतिर्नामविशेषणं च / बन्धेर्बन्ध्यर्थस्य बन्धनस्य यन्नाम संज्ञा तद्विषयात करणवाचिनः पराद बन्धेर्धातोस्तस्यैव धातोः संबन्धे सति णम् वा स्यात् / क्रौञ्चबन्धं बद्धः / मयूरिकाबन्धं बद्धः / मर्कटबन्धं बद्धः। गोबन्धं बद्धः / महिषीबन्धं बद्धः। अट्टालिकाबन्धं बद्धः। चण्डालिकाबन्धं बद्धः। क्रौञ्चादीनि बन्धनामधेयानि / क्रौञ्चाद्याकारो बन्धः क्रौञ्चादिरित्युच्यते / तेन बन्धेन बद्ध इत्यर्थः। केचित उत्तरपदप्रकृतिप्रत्ययसमुदायस्य क्रौञ्चबन्धमित्यादेः संज्ञात्वं मन्यन्ते, व्युत्पतिं च क्रौञ्चेन क्रौञ्चाय क्रौञ्चाद् वा बन्धनमित्यादि यथाकथंचित् कुर्वन्ति तन्मतसंग्रहार्थ नाम्नीति प्रत्ययान्तोपाधित्वेन व्याख्येयम् / 1213 आधारात् / / 5 / 4 / 68 // आधारवाचिनः पराद् बन्धेस्तस्यैव धातोः संबन्धे णम् वा स्यात् / चक्रबन्धं बद्धः / चारकबन्धं बद्धः / कूटबन्धं बद्धः / गुप्तिबन्धं बद्धः / चक्रादिषु बद्ध इत्यर्थः / ग्रामेबद्धः, हस्तेबद्धः इति बहुलाधिकारान्न भवति / 1214 कर्तुर्जीवपुरुषान्नश्वहः // 5 / 4 / 69 // कर्तृवाचिभ्यां जीवपुरुषाभ्यां पराभ्यां यथासंख्यं नशिवहिभ्यां तस्यैव धातोः संबन्धे सति णम् वा स्यात् / जीवनाशं नश्यति / जीवनश्यतीत्यर्थः / पुरुषवाहं वहति-पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः। कर्तुरिति किम् / जीवेन नश्यति / पुरुषं वहति / __ 1218 ऊर्ध्वात्पूःशुषः // 5 / 4 / 70 // कर्तृवाचिन ऊर्ध्वशब्दात् परात् पूरः शुषश्च तस्यैव धातोः संबन्धे सति णम् वा स्यात् // पूरीत्यनिर्देशात् पूर्दैवादिको न चौरादिकः / ऊर्ध्वपूरं पूर्यते-अर्चः पूर्यत इत्यर्थः / ऊर्ध्वशोषं शुष्यति / ऊर्ध्वः शुष्यतीत्यर्थः।