________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. पेषं पेष्टव्यः / शुष्कपेषं पिष्यते / तादिभिरुक्तेऽपि व्याप्ये तदुपपदतास्त्येव / प्रयोगानुप्रयोगक्रिययोरैक्यात् तुल्यकर्तृकत्वम् प्राक्कालत्वं च नास्तीत्यत्र प्रकरणे पक्षे स्वा न भवति / घनादय एव तु भवन्ति / शुष्कस्य पेषं पिनष्टि / सामान्यविशेषभावविवक्षया च धातुसंबन्धः। यदाहुः-सामान्यपुषेरवयवपुषिः कर्म भवतीति / कश्चित्तु सामान्यविशेषविवक्षयात्रापि क्रियाभेदोऽस्तीति तुल्यकर्तृकत्वं पाकालत्वं च तेन क्त्वापि निमूलं कषित्वा कपतीत्यादि मन्यते / 1206 कृग्ग्रहोऽकृतजीवात् // 5 // 4 / 61 // अकृत जीव इत्येताभ्यां व्याप्याभ्यां पराभ्यां यथासंख्यं करोतिगृहणातिभ्यां तस्यैव धातोः संबन्धे सति णम् वा स्यात् / अकृतकारं करोति, अकृतं करोतीत्यर्थः। जीवग्राहं गृह्णाति, जीवन्तं गृहणातीत्यर्थः। 1207 निमूलात् कषः // 5 / 4 / 62 // निमूलाद् व्याप्यात् परात् कषस्तस्यैव धातोः संवन्धे सति णम् वा स्यात् / निमूलमित्यत्रात्ययेऽव्ययीभावः / निर्गतानि मूलान्यस्येति बहुव्रीहिर्वा / निमूलकाषं कषति / निमूलं कषतीत्यर्थः। पक्षे निमूलस्य काषं कषति / 12.8 हनश्च समूलात् // 5 / 463 // समूलशब्दाद् व्याप्यात् पराद्हन्तेः कषेश्च तस्यैव धातोः संबन्धे सति णम् वा स्यात् / समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा / समूळघातं 'हन्ति-समूलं हन्तीत्यर्थः। समूलकाषं कपतिसमूलं कषतीत्यर्थः। 1209 करणेभ्यः // 5 // 4 / 64 // करणात् कारकात् पराद् हन्तेस्तस्यैव धातोः संबन्धे सति णम् वा स्यात् / पाणिघातं कुड्यमाहन्ति / पादघातं शिलां हन्ति / पाणिना पादेन वा हन्तीत्यर्थः / बहुवचनं व्याप्त्यर्थम् / तेन करणपूर्वादिसार्थादपि हन्तेः अनेनैव णम् / अस्युपघातमरीन् हन्ति / शरोपघातं मृगान् हन्ति / तथा च सति नित्यसमासस्तस्यैव धातोरनुप्रयोगश्च सिद्धयति / 1210 स्वस्नेहनार्थात् पुषपिषः // 5 // 4 // 66 // आत्मा आत्मीयं ज्ञातिधनं च स्वम् / स्निह्यते सिच्यते येनोदकादिना तत् स्नेहनम् / स्वार्थात् स्नेहनार्थाच करणवाचिनः पराद् यथासंख्यं पुषः पिषश्च तस्यैव धातोः संबन्धे सति णम् वा स्यात् / स्वपोषं पुष्णाति पुष्यति पोषति वा / एवमात्मपोषं गोपोषं महिषीपोषं पितृपोषं मातृपोषं धनपोषं रैपोषम् / स्वादिभिः पुष्णातीत्याद्यर्थः / स्नेहनार्थात्