________________ 894 सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त इत्यर्थः / जीवेः पूर्वकालासंभवात् अपूर्वकाल एव विधिः / 1201 चर्मोदरात पूरेः // 4 // 56 // व्याप्याभ्यां चर्मोदरशब्दाभ्यां परादेककर्तृकेऽर्थे वर्तमानात् पूरयतेर्धातोः संबन्धे णम् वा स्यात् / चर्मपूरमास्ते / चर्म पूरयित्वा आस्ते इत्यर्थः / उदरपूरं शेते / उदरं पूरयित्वा शेते इत्यर्थः। 1202 वृष्टिमान ऊलुक चास्य वा // 14 / 17 / व्याप्यात् परात् पूरयतेर्धातोः संबन्धे णम् वा स्यात् अस्य च पूरयतेरूकारस्य लुग्वा, समुदायेन चेद वृष्टिमानं वृष्टीयत्ता गम्यते / गोष्पदनं वृष्टो देवः। गोष्पदपूरं वृष्टो देवः / सीतामं सीतापूरं वृष्टो मेघः / यावता गोष्पदादिपूरणा भवति तावद वृष्ट इत्यर्थः। अस्येतिग्रहणादुपपदस्य न भवति / मूषकबिलपूरं वृष्टो मेघः। गोष्पदपमिति प्रातर्धातोः ' आतो डोऽहामः' इति डेन गोष्पदपूरमित्यणा च क्रियाविशेषणत्वे सिद्धयति / एवं सर्वे णमन्ताः प्रयोगाः / तत्र णम्विधानमव्ययत्वेन तरामावर्थमनुस्वारश्रवणार्थ च / तेन गोष्पदपंतरां गोष्पदपंतमां गोश्पदप्ररूपं गोष्पदप्रंकल्पं देश्यं देशीयं गोष्पदपूरंतरां तमां रूपं कल्पं देश्यं देशीयम् इत्यादि सिद्धं भवति / अन्यथा हि गोष्पदप्रतरं गोष्पदपूरतरमित्याद्येव स्यात् / गोष्पदप्रेण गोष्पदपीभवति गोष्पदपूरेण गोष्पदपूरीभवतीत्यादिप्रयोगास्तु डघत्रादिप्रत्ययान्ता द्रष्टव्याः। 1203 चेलार्थात् कोपेः / / 5 / 4 / 58 // चेलार्थात् व्याप्यात् परात् क्रोपयतेस्तुल्यकर्तृकेऽर्थे वर्तमानात् दृष्टिमाने गम्यमाने धातोः संबन्धे णम् वा स्यात् / चेलनोपं वृष्टो मेघः / वस्त्रकोपम् / वसननोपम् / यावता चेलं क्नूयते आH. भवति तावद् वृष्ट इत्यर्थः। अर्थग्रहणादत्र स्वरूपपर्यायविशेषाणां त्रयाणामपि ग्रहणम् / तेन पटिकानोपं कम्बलक्नोपमित्यादौ चेलविशेषादपि भवति / अयमप्यप्राक्काले विधिः। 1204 गात्रपुरुषात् स्नः / / 4 / 09 / / गात्रपुरुषाभ्यां व्याप्याभ्यां पराद अन्तर्भूतण्यर्थात स्नातेस्तुल्यकर्तृकेऽर्थ वर्तमानात् दृष्टिमाने गम्यमाने ' धातोः संबन्चे णम् वा स्यात् / गात्रस्नायं वृष्टो मेघः / पुरुषस्नायं वृष्टो मेघः / यावता गात्रं पुरुषश्च स्नाप्यते तावद् वृष्ट इत्यर्थः / इदं केचिदेवेच्छन्ति / 1205 शुष्कचूर्णरूक्षात् पिषस्तस्यैव // 5 // 4 // 60 // शुष्कचूर्णरूक्षेभ्यो व्याप्येभ्यः परात् पिषेणम् वा स्यात् तस्यैव धातोः संबन्धे सति / शुष्कपेषं पिनष्टि / शुष्कं पिनष्टीत्यर्थः / एवं चूर्णपेषम् / रूपेवम् / शुष्कपेष पिष्टः / शुष्क