________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 497 1216 व्याप्याचेवात् // 5 // 4 / 71 // व्याप्यात् कर्मणश्चकारात् कर्तुश्चेवात् इवार्थात् उपमानार्थात् पराद् धातोस्तस्यैव धातोः संवन्धे सति णम् वा स्यात् / सुवर्णनिधायं निहितः सुवर्णमिव निहित इत्यर्थः। एवं रत्ननिधायं घृतनिधायम् / शाकलेशं क्लिष्टः। ओदनपाचं पकः। कर्तुः-काकनाशं नष्टः। काक इव नष्ट इत्यर्थः। एवं जमालिनाशं नष्टः ।अभ्रविलायं विलीनः। अभ्रमिव विलीन इत्यर्थः। 1217 उपात् किरो लवने // 5 / 4 / 72 // उपपूर्वात् किरतेर्लवनेऽर्थे वर्तमानस्यान्यस्य धातोः संबन्धे सति णम् वा स्यात् / लवन इति वचनात् तस्यैवेति निवृत्तम् / उपस्कारं मद्रका लुनन्ति / विक्षिपन्तो लुनन्तीत्यर्थः। लवन इति किम् / उपकीय गच्छति / 1218 दशेस्तृतीयथा // 5 // 4 // 73 // तृतीयान्तेन योगे उपपूर्वात् तुल्यकर्तृ केऽर्थे वर्तमानाईशेरन्यस्य धातोः संबन्धे सति णम् वा स्यात् / मूलकेनोपदंश भुङ्क्ते / मूलकोपदंशं भुङ्क्ते / आईकेणोपदंश भुङ्क्ते / आर्द्रकोपदंशं भुङ्क्ते / पक्षे मूलकेनोपदश्य भुङ्क्ते / आईकेणोपदश्य भुङ्क्ते / मूलकाद्युपदंशेः कर्मापि प्रधानस्य भुजेः करणमिति तृतीयैव भवति / प्रधानक्रियोपयुक्ते हि कारके गुणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानखादेव यथेष्यते ग्रामो गन्तुं पक्त्वा भुज्यते ओदन इति / यदा खवयवक्रियापेक्षया पूर्वकालविवक्षायां क्त्वा क्रियते तदा क्रियाभेदात् संबन्धभेदे द्वितीयापि भवति-मूलकमुपदश्य भुङ्क्ते / __ 1219 हिंसार्थादेकाप्यात् // 5 / 4 / 74 // हिंसा प्राण्युपघातस्तदर्थाद् धातोः संबध्यमानेन धातुना सहैकाप्यात् एककर्मकात् तृतीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानात् णम् वा स्यात् / दण्डेनोपघातं गाः सादयति / दण्डोघातं गाः सादयति / खड्गेन प्रहारं खड्गप्रहारं शत्रून् विजयते / दण्डेनाताडं दण्डाताडं गाः कालयति / पक्षे दण्डेनोपहत्येत्यादि / हिंसार्थादिति किम् / चन्दनेनानुलिप्य जिनं पूजयन्ति / एकाप्यादिति किम् / दण्डेनाहत्य चौरं गोपालको गाः खेटयति / 1220 उपपीडरुधकर्षस्तत्सप्तम्या / / 5 / 4 / 75 / / तया तृतीयया युक्ता सप्तमी तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्यः पीडरुधकर्षतिभ्यस्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो धातोः संबन्धे णम् वा स्यात् / पार्श्वभ्यामुपपीडं शेते पार्थोपपीडं शेते। पार्श्वयोरुपपीडं शेते पार्थोपपीडं शेते / व्रजेनोपरोधं व्रजोपरोधं गाः सादयति / बजे उपरोधं व्रजोपरोधं गाः स्थापयति / पाणिनोपकर्ष पाण्युपकर्ष धानाः पिनष्टि / पाणावुप 113