SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ .888 सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त * गाथानाम् / णिना बाधा माभूदिति कृत्यविधानम् / कृत्त्वाच्च कर्तरिणिनो विधानात् कृत्योनामपि कर्तर्येव विधानम् / भावकर्मणोस्तु सामान्येन विधानात् सिद्धा एव बाधकाभावात् / 1169 निषेधेऽलंखल्योः क्त्वा // 5 / 4 / 44 // निषेधे वर्तमानयोरलंखलुशब्दयोरुपपदयोर्धातोः क्त्वाप्रत्ययो वा स्यात् / अलं कृत्वा / खलु कृत्वा / न कर्तव्यमित्यर्थः। पक्षे यथाप्राप्तम् / अलं वत्स रोदनेन / अलं रुदितम् / क्त्वान्तयोग एव खलुशब्दो निषेधवाचीति पक्षे खलुशब्दो नोदाहियते / अन्ये तु खलु कृतेन खलु भोजनेन खलु भोजनमित्यप्युदाहरन्ति / निषेध इति किम् / अलंकारः स्त्रियाः। सिद्धं खलु / अलंखल्वोरिति किम् / मा कारि भवता / 1170 परावरे // 14 // 45 // परे अवरे च गम्यमाने धातोः क्त्वा वा स्यात् / 1171 अननः क्त्वो यप् // 3 / 2 / 154 // नञ्वर्जितादव्ययात् पूर्वपदाद् यदुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशः स्यात् / अतिक्रम्य नदी पर्वतः / नद्याः परः पर्वत इत्यर्थः / बाल्यमतिक्रम्य यौवनम् / अवरे-अप्राप्य नदी पर्वतः / मद्या अर्वाक् पर्वत इत्यर्थः। अप्राप्य यौवनम् बाल्यम् / नदीपर्वतयोर्खाल्ययौवनयोर्वा परावरत्वमात्रं प्रतीयते अस्ति प्राप्यत इति वा न द्वितीया क्रियेति / तुल्यकतकक्रियान्तराभावात् 'प्राक्काले ' इति न सिद्धयतीति वचनम् / वाधिकाराद् यथामाप्तं च / नद्यतिक्रमेण पर्वतः, नद्यप्राप्त्या पर्वतः / अनब इति किम् / अकृत्वा / अहत्वा। परमकृत्वा / अनत्र इति नसदृशमव्ययं गृह्यत इति इह नमोऽनव्ययाच न भवति / उत्तरपदस्येत्येव / अलं कृत्वा / खलु कृत्वा। 1172 निमील्यादिमेङस्तुल्यकर्तृके // 5 // 4 // 46 // तुल्यो धात्वर्थान्तरेण कर्ता यस्य स तुल्यकर्तृकस्तस्मिन्नर्थे वर्तमानेभ्यो निमील्यादिभ्यो मेडश्च धातोः संबन्धे सति क्त्वा वा स्यात् / निमील्यादीनां समानकालार्थो मेडस्तु परकालार्थ आरम्भः / स्वभावात् मेङ् व्यतिहार एव वर्तते / अक्षिणी निमील्य हसति / मुख व्यादाय स्वपिति / पादौ प्रसार्य पतति / दन्तान् प्रकाश्य जल्पति / शिशुरयं मातरं भक्षयित्वोपजातः / 1173 मेडो वा मित् // 4 / 3 / 88 // मेङो यपि परे मिदादेशो वा स्यात् / अपमाय अपमित्य याचते / अपमातुं प्रतिदातुं याचत इत्यर्थः / पूर्व ह्यसौ याचते पश्चादपमयत इत्यर्थः / याचेस्तु पूर्वकालेऽपि क्त्वा न भवति मेङः परकालभाविन्या
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy