________________ 887 प्रकरणम्] सिद्धहैमबृहत्मक्रिया. अतिमुलभमतिदुर्लभमित्यतेः पूजातिक्रमयोरनुपसर्गवात् / उपसर्गादेव सुदुर्घ्य इति नियमार्थ वचनम् / बहुवचनं व्यस्तसमस्तपरिग्रहार्थम् दुस्संग्रहार्थं च। 1166 व्यर्थे काप्याद् भूकृगः // 5 / 3 / 140 // कृच्छ्राकृच्छ्रार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्व्यर्थे वर्तमानाभ्यां कर्तृकर्मवाचिभ्यां शब्दाभ्यां पराभ्यां यथासंख्यं भूकृग्भ्यां परः खल् प्रत्ययः स्यात् / खानुबन्धबलात् कर्तृकर्मणोरेवानन्तर्यम् / दुःखेनानाढयेनाढयेन भूयते दुराढयंभवं भवता / सुखेनानाढयेनाढयेन भूयते स्वाट्यंभवं भवता / ईषदाढ्यंभवं भवता / दुःखेनाढयः आढयः क्रियते दुराढ्यंकरो मैत्रो भवता / सुखेनानाढ्य आढ्यः क्रियते स्वाढ्यंकरश्चैत्रो भवता / ईषदाढयंकरश्चैत्रो भवता / मुखेनाकटः कटः क्रियन्ते सुकटंकराणि वीरणानि / सुकरः कटो वीरणैरित्यत्र तु करणविवक्षा / व्यर्थे इति किम् / दुराढयेन भूयते / स्वादयेन भूयते / ईषदाढन्येन भूयते / आढ्य एव सन् कंचिद् विशेषमापद्यत इत्यर्थः / एवं दुराढ्यः क्रियते इत्यादि / अभूतप्रादुर्भावेऽपि वा प्रकृतेरविवक्षणात् च्व्यर्थो नास्ति / 1167 शासू युधिदृशिधृषिमृषातोऽनः // 5 // 3 // 141 // कृच्छ्राकृच्छ्रार्थदुःखीषत्पूर्वेभ्यः शासूप्रभृतिभ्य आकारान्तेभ्यश्च धातुभ्यो भावकर्मणोरर्थयोरनः प्रत्ययः स्यात् / दुःखेन शिष्यते दुःशासनः। सुखेन शिष्यते सुशासनः। ईपच्छासनः। एवं दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, “दुर्मर्षणः। आदन्त-दुरुत्थानं भवता / मूत्थानम् / ईषदुत्थानम् / दुष्पानं पयो भवता / सुपानम् / ईषत्पानम् / आदन्तवर्जितेभ्यः केचिद् विकल्पमिच्छन्ति / तन्मते दुःशासः। दुर्योधः / दुर्दर्शः। दुर्धर्षः / दुर्मर्ष इत्याद्यपि भवति / दुर्दों हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यते / कथम् ईपदरिद्रः ? विषयेऽप्याकारस्य लोपेनादन्तखाभावात् खलेव / खलोऽपवादो योगः। __ 1168 णिन् चावश्यकाधमये // 5 // 4 // 36 // अवश्यंभाव आवश्यकम् / ऋणेऽधमोऽधमर्णः तस्य भाव आधमर्ण्यम् / आवश्यके आधमये च गम्यमाने कर्तरि वाच्ये धातोणिन् कृत्याश्च स्युः। अवश्यं करोतीति कारी / हारी / यदा खवश्यमोऽपि प्रयोग उभाभ्यामपि द्योतनात् तदा मयूरव्यंसकादित्वात् समासः। अवश्यकारी / अवश्यंहारी / अवश्यशब्दप्रयोगे तु अवश्यकारी। अकारान्तोऽपि ह्यनव्ययमवश्यशब्दोऽस्ति / अवश्यं गेयो गाथको गीतस्य / अवश्यं भव्यश्चैत्रः / आधमये-शतं दायी / सहस्रं दायी। कारी मे कटमसि / हारी मे भारमसि / गेयो