SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त रयोर्ड डर इक इकवक घ घञ् च प्रत्ययाः स्युः। आखायते आखन्यते वाऽनेनास्मिन् वा आखः / आखरः / आखनिकः। आखनिकवकः / आखनः / आखानः / 1163 इकिश्ति स्वरूपार्थे // 5 / 3 / 138 // धातोः स्वरूपेऽर्थे चाभिधेये इकिश्तिव् इत्येते प्रत्ययाः स्युः / भञ्जिः। क्रुधिः / वेत्तिः। अर्थ-यजेरङ्गानि / भुजिः क्रियते / पचतिवर्तते / 1164 दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल् // 5 // 3 // 139 // कृच्छं दुःखम् / अकृच्छ्रे सुखम् / कृच्छ्रार्थवृत्तेः दुरः सामर्थ्यादकृच्छ्रार्थवृत्तिभ्यां स्वीप द्भ्यां पराद् धातोर्भावाकर्मणोरर्थयोः खल् प्रत्ययः स्यात् / कृत्यादीनामपनादः / दुःखेन शय्यत इति दुःशयम् / सुखेन शय्यत इति सुशयम् , ईपच्छयं भवता / दुःखेन क्रियत इति दुष्करः / सुखेन क्रियत इति सुकरः, ईषत्करः कटो भवता / दुष्करं सुकरम् ईपत्करं भवता / दुःस्वीषत इति किम् / कृच्छ्रसाध्यः / सुखसाध्यः। कृच्छ्राकृच्छादिति किम् / ईपल्लभ्यं धनं कृपणात् / अल्पं लभ्यमित्यर्थः / खकार उत्तरत्र मागमार्थः। लकारः खलाश्च' इत्यत्र विशेषणार्थः / इह स्त्रीप्रत्ययात प्रभृति असरूपविधेरभावात् स्पर्धे अलः स्त्रीखलनाः स्त्रियास्तु खलनौ परत्वात् भवतः। तत्र चयः जयः लवः इत्यादावलोऽवकाशः कृतिः हृतिः इत्यादौ स्त्रीप्रत्ययस्य चितिः स्तुतिरित्यादौ तूभयं प्रामोति / अलोऽविशेषेणाभिधानात् / तत्र परखात् स्त्रीप्रत्ययो भवति / तथा दुर्भेदः सुभेद इत्यादौ खलोऽवकाशः अळस्तु पूर्व एव दुश्चयं मुचयं दुर्लवं सुलवमित्यादौ तूभयप्राप्तौ परसात् खल् भवति / तथा इध्मत्रश्चनः पलाशच्छेदन इत्यादौ अनस्यावकाशः अलस्तु पूर्वक एव पलाशशातनोऽविलवन इत्यादौ तूभयप्राप्तौ परसादनो भवति / एवं हृतिः कृतिरित्यादौ स्त्रीप्रत्ययस्यावकाशः दुर्भेदः सुभेदः इत्यादौ खलः दुर्भदा सुभेदा इत्यादौ तूभयप्राप्तौ परत्वात् खल् भवति / तथा इध्मत्रश्चनः पलाशच्छेदन इत्यादावनस्यावकाशः कृतिरित्यादौ स्त्रीप्रत्ययस्य सक्तुधानी तिलपीडनीत्यादौ तूभयप्राप्तौ परसादनडेव / लभेः खलि ' उपसर्गात् खल्घजोश्च' इति नोऽन्तः / ईषत्मलम्भम् / ईषदुपलम्भम् / दुष्पलम्भम्। सुप्रलम्भम् / 1165 सुदुर्व्यः // 4 / 4 / 109 // सु दुर् इत्येताभ्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात् पराभ्यां परस्य लभतेः स्वरात् परः खल्योः परयो!ऽन्तः स्यात् / खल्-अतिमुलम्भम् / अतिदुर्लम्भम् / घन्-अतिसुलम्भः / अतिदुर्लभ्भः / उपसर्गादित्येव / सुलभम् / दुर्लभम् / मुदुर्लभम् / सुलाभः / दुर्लाभः / सुदुर्लाभः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy