________________ 864 सिद्धहैमबृहत्मक्रिया. [उत्तरकृदन्त 1152 कारणम् // 5 / 3 / 127 // कृगः कर्तर्यनट् वृद्धिश्च निपात्यते। करोतीति कारणम् / कर्तरीति किम् / करणम् / 1153 भुजिपत्यादिभ्यः कर्मापादाने // 1 // 3 // 128 // भुज्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथासंख्यं कर्मण्यपादाने चानट् स्यात् / भुज्यत इति भोजनम् / निरदन्ति तदिति निरदनम् / आच्छादि-आच्छादनम् / अवस्रावि-अवस्रावणम् / अवसिच्-अवसेचनम् / अस्-असनम् / वस्-वसनम् / आभृग-आभरणम् / अपादाने, पत्-प्रपतत्यस्मादिति प्रपतनः। स्कन्दि-प्रस्कन्दनः / श्योति-प्रश्श्योतनः। खु-प्रस्रवणः / झुष्-निर्झरणः / धृ-शङ्खोद्धरणः / दाग-अपादानम् / बहुवचनं प्रयोगानुसरणार्थम् / 1154 करणाधारे // 5 / 3 / 129 // करणाधारयोरर्थयोः धातोरनट् स्यात् / घबाधपवादः / करणे-एषणी। लेखनी / विचयनी / इध्मत्रश्चनः / पलाशशातनः। अविलवनः। श्मश्रुकर्तनः। आधारे-गोदोहनी / सक्तुधानी। तिलपीडनी। शयनम् / भासनम् / अधिकरणम् / आस्थानम् / 1155 पुनाम्नि घः // 5 // 3 // 130 // पुंसो नाम संज्ञा पुन्नाम / तत्र गम्यमाने करणाधारयोर्धातोघेः प्रत्ययः स्यात् / करणे-अच्छदः / उरच्छदः / दन्तच्छदः / प्लवः / प्रणवः / करः / प्रत्ययः / शरः। आधारे-एत्य कुर्वन्त्यस्मिन्नित्याकरः / आलवः / आरवः। आपवः / भवः / लयः / विषयः / भरः / प्रहरः / प्रसरः / अवसरः। परिसरः। विसरः / प्रतिसरः। पुंग्रहणं किम् / विचीयतेऽनयेति विचयनी / प्रधीयते विकारोऽस्मिन्निति प्रधानम् / नाम्नीति किम् / प्रहरणो दण्डः। बहुलाधिकाराव कचिन्न / प्रसाधनः / दोहनः / घकार ‘एकोपसर्गस्य च घे' इत्यत्र विशेषणार्थः / 1156 गोचरसंचरवहबजव्यजखलापणनिगमबकभगकषाकषनिकषम् // 5 / 3 / 131 // एते शब्दाः करणाधारयोः पुनाम्नि व्यञ्जनाद् घत्रि प्राप्ते घप्रत्ययान्ता निपात्यन्ते / गावश्चरन्ति अस्मिन्निति गोचरो देशः / व्युत्पत्तिमात्र चेदम् / विषयस्य तु संज्ञा / अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् / संचरन्तेऽनेन संचरः। वहन्ति तेन वहः वृषस्कन्धदेशः। वजन्त्यस्मिनिति वजः। विपूर्वोऽजिः / व्यजत्यनेन व्यजः / निपातनाद् वीभावाभावः। खलन्त्यस्मिमिति खलः / एत्य पणायन्ति अस्मिमिति आपणः / निगच्छन्ति तत्रेति निगमः / वक्तीति