________________ 883 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. चन्दनतक्षा क्रीडा / बहुलाधिकारादेव चार्तिरित्यत्रार्दतेः अर्दयतेश्च यथाक्रममप्रत्ययमनप्रत्ययं च बाधिखा क्तिरेव / पुंसि च-अरोचनं न रोचतेऽस्मिन्निति वा अरोचकः / अनाशकः / उत्कन्दकः / उत्कर्णकः। 1146 भावे // 5 // 3 // 122 // भावे-धावर्थनिर्देशे स्त्रियां धातोर्णकः प्रत्ययः स्यात् / आसिका / शायिका / जीविका / कारिका / बहुलाधिकारात् ईक्षा, ऊहा, ईहा, स्मरणा। 1147 क्लीबे क्तः // 5 // 3 / 123 / / क्लीवे नपुंसकलिङ्गे भावेऽर्थे धातोः क्तः प्रत्ययः स्यात् / घनाद्यपवादः / स्त्रियां भावाकोरिति च निवृत्तम् / हसितं छात्रस्य / नृत्तं मयूरस्य / व्याहृतं कोकिलस्य / गतं मतंगजस्य / क्लीव इति किम् / हसः। हासः। 1148 अनट् // 5 // 3 // 124 // क्लीवे भावेऽर्थे धातोरनट् स्यात् / गमनं भोजनं वचनं हसनं छात्रस्य / टकार उत्तरत्र ङयर्थः / 1149 ष्ठिवसिवोऽनटि वा // 4 / 2 / 112 // ष्ठिवः सीव्यतेश्वानटि वा दीर्घः स्यात् / निष्ठीवनम् / निष्ठेवनम् / सीवनम् / सेवनम् / 1150 यत्कर्मस्पर्शात् करृङ्गसुखं ततः // 5 // 3 / 126 // येन कर्मणा संस्पृश्यमानस्य कर्तुरङ्गस्य शरीरस्य सुखमुत्पद्यते ततः कर्मणः पराद धातोः क्लीधे भावेऽर्थेऽनट् स्यात् / पूर्वेणैव प्रत्यये सिद्धे नित्यसमासार्थ वचनम् / पयःपानं सुखम् / ओदनभोजनं सुखम् / * कर्मति किम् / अपादानादिस्पर्श मा भूत् / तूलिकाया उत्थानं सुखम् / स्पर्शादिति किम् / अग्निकुण्डस्योपासनं मुखम् / कत्रिति किम् / शिष्येण गुरोः स्नापनं सुखम् / स्नापयतेने गुरुः कर्ता किं तहि कर्म / अङ्गग्रहणं किम् / पुत्रस्य परिष्वञ्जनं सुखम् / पुत्रस्य स्पर्शान्न शरीरस्य सुखं किं तर्हि मानसी प्रीतिः / अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् / सुखमिति किम् / कण्टकानां मर्दनम् / सर्वत्रासमासः प्रत्युदाहार्यः / अथवा तत इति सप्तम्यन्तात् तमुः / येन कर्मणा स्पृश्यमानस्य कर्तुरङ्गसुखमुत्पद्यते तस्मिन् कर्मण्यभिधेये सामथ्यात् कर्तुः पराद् धातोरनट् स्यात् इत्यपरोऽर्थः। राज्ञा भुज्यन्ते राजभोजनाः शालयः / राजाच्छादनाः पावाराः। राजपरिधानानि वासांसि / 1151 रम्यादिभ्यः कर्तरि // 5 // 3 / 126 // रम्यादिभ्यो धातुभ्यः कर्तर्यनट स्यात् / रम्-रमणी / कम्-कमनी / नन्द् नन्दनी / ह्राद् हादनी / व्रश्च-इध्मत्रश्वनः / शातिः-पलाशशातनः / बहुचनं प्रयोगानुसरणार्थम् /