SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ 882 सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त __ 1141 नमोऽनिः शापे // 5 / 3 / 117 // नत्र; पराद् धातोः शापे गम्यमाने भावाकोंः स्त्रियामनिः प्रत्ययः स्यात् / अजननिस्ते वृषल भूयात् / एवमजीवनिः। अकरणिः / अप्रयाणिः। अगमनिः / नत्र इति किम् / मृतिस्ते जाल्म भूयात् / शाप इति किम् / अकृतिस्तस्य पटस्य / 1142 ग्लाहाज्यः // 53 // 118 // एभ्यः स्त्रियां भावाकोरनिः प्रत्ययः स्यात् / ग्लानिः / हानिः / ज्यानिः / म्लानिरित्यपि कश्चित् / 1143 प्रश्नाख्याने वेञ् // 5 // 3 // 119 // प्रश्ने आख्याने च गम्यमाने स्त्रियां भावाकोंर्धातोरिञ् प्रत्ययो वा स्यात् / वावचनाद् यथाप्राप्तं च / कां त्वं कारिमकार्षीः। कां कारिकां का क्रियां कां कृत्यां कां कृतिम्। आख्याने सवी कारिमकार्ष सर्वी कारिकां सर्वी क्रियां सर्वा कृत्याम् सर्वा कृतिम् / कां त्वं गणिमजीगणः, कां गणनाम् / सर्वां गणिमजीगणम् सी गणिकां सर्वा गणनाम् / एवं पाचिं पाचिकां पक्तिं पचाम् / पाठिं पाठिकां पठितिम् / प्रश्नाख्यान इति किम् / कृतिः। हृतिः। ___ 1144 पर्यायाहणोत्पत्तौ च णकः // 5 // 3 / 120 // एष्वर्थेषु प्रश्नाख्यानयोश्च गम्यमानयोः स्त्रियां भावाकोंर्धातोर्णकः प्रत्ययः स्यात् / त्याद्यपवादः / पर्यायः क्रमः परिपाटिरिति यावत् / भवत आसिका / भवतः शायिका। भवतोऽग्रगामिका / आसितुं शयितुमग्रेगन्तुं च भवतः क्रम इत्यर्थः / अहंणमर्हः योग्यता / अर्हति भवान् इक्षुभक्षिकाम् / ओदनभोजिकाम् / पयःपायिकाम् / ऋणं यत्परस्मै धार्यते / इक्षुभक्षिकां मे धारयसि / उत्पत्तिर्जन्म / इक्षुभक्षिका मे उदपादि। प्रश्नेकां त्वं कारिकामकार्षीः / कां त्वं गणिकामजीगणः। आख्याने-सा कारिकामकार्ष, सर्वी गणिकामजीगणम् / बहुलाधिकारात् कचिन्न / चिकीर्षा बुभुक्षा मे उदपादि / प्रश्नाख्यानयोगेऽपि पर्यायादिषु परखाद् णक एव भवति नेञ् / 1145 नाम्नि पुंसि च // 5 // 3 // 121 // धातोः स्त्रियां भावाकोंर्नाम्नि संज्ञायां णकः प्रत्ययः स्यात् , यथादर्शनं पुंसि च / प्रच्छर्दन प्रच्छर्यतेऽनयेति वा प्रच्छर्दिका / एवं प्रवाहिका / विचर्चिका / प्रस्कन्दिका। विपादिका / एता रोगसंज्ञाः / उद्दालकपुष्पाणि भज्यन्ते यस्यां सा उद्दालकपुष्पभञ्जिका। एवं वारणपुष्पप्रचायिका। अभ्योषाः खाद्यन्तेऽस्यामिति अभ्योषखादिका। एवमवोषखादिका। साला भज्यन्ते यस्यां सा सालभञ्जिका / एवंनामानः क्रीडाः। बहुलाधिकारादिह न / शिरसोऽर्दन शिरोऽतिः / एवं शीर्षातिः। शिरोऽभितप्तिः / शीर्षाभितप्तिः / तथा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy