________________ 880 सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त 1132 भिदादयः // 5 / 3 / 108 // भिदादयः शब्दा भावाकोंः स्त्रियामप्रत्ययान्ता यथादर्शनं निपात्यन्ते / भिदा विदारणम् / छिदा द्वैधीकरणम् / विदा विचारणा / मृजा शरीरसंस्कारः। सिपा प्रेरणम् / दया अनुकम्पा / रुजा रोगः। चुरा चौर्यम् / पृच्छा प्रश्नः / एतेऽर्थविशेषे / अन्यत्र भित्तिः कुडयम् , छित्तिश्चौर्यादिकरणाद् राजापराधः, विच्छित्तिः प्रकार इत्यादि / तथा ऋकहधृतृभ्यः संज्ञायां वृद्धिश्च / आरा शस्त्री / ऋतिरन्या / कारा गुप्तिः। कृतिरन्या / हारा मानम् / हृतिरन्या / धारा प्रपातः खड्गादेर्वा / धृतिरन्या / तारा ज्योतिः। तीर्णिरन्या / तथा गुहिकुहिवशिवपितुलिक्षपितिभ्यश्च संज्ञायाम् / गुहा पर्वतकन्दरा ओषधिश्च / गढिरन्या / कुहा नाम नदी / कुहनान्या / वशा स्नेहनद्रव्यम् धातुविशेषश्च / उष्टिरन्या। वपा मेदोविशेषः / उप्तिरन्या / एवं तुला उन्मानम् / क्षपा रात्रिः। क्षिया आचारभ्रंशः। तथा संज्ञायामेव रिखिलिखिशुभिसिधिमिधिगुधिभ्यो गुणश्च / रिखिः लिखेः समानार्थः सौत्रो धातुः / रेखा राजिः। लेखा सैव / शोभा कान्तिः। सेधा सखम् / मेधा बुद्धिः। गोधा प्राणिविशेषः दोस्त्राणं च / भिदादिराकृतिगणः, तेन चूडेत्यादिसिद्धम् / / __ अकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव च / अधिकार्थविवक्षा च त्रयमेतन्निपातनात् // 1133 भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः // 5 // 3 // 109 // एभ्यो ण्यन्तेभ्यः स्त्रियां भावाकोरङ् स्यात् / ण्यन्तवादने प्राप्ते वचनम् / भीषा / भूषा। चिन्ता / पूजा / कथा / कुम्बा। चर्चा / स्पृहा। तोला / दोला / बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति / पीडा / ऊना / 1134 उपसर्गादातः / / 5 / 3 / 110 // उपसर्गेभ्य आकारोन्तेभ्यो धातुभ्यः स्त्रियां भावाकोरङ् स्यात् / उपदा / उपधा। आधा / प्रदा। प्रधा। विधा। संधा / प्रमा। श्वादिखात् क्तौ प्रमितिः। उपसर्गादिति किम् / दत्तिः। 1135 णिवेत्त्यासश्रन्थघवन्देरनः // 5 // 3 // 111 // ण्यन्तेभ्यो वेत्त्यासश्रन्थघट्टवन्दिभ्यश्च धातुभ्यः स्त्रियां भावाकोरनः प्रत्ययः स्यात / कारणा। हारणा। कामना। लक्षणा। भावना। वेदना। आसना। उपासना। श्रन्थना। ग्रन्थेरप्यन्ये / ग्रन्थना। घटना / वन्दना। वेत्तीति तिन्निर्देशो ज्ञानार्थपरिग्रहार्थः / 1136 इषोनिच्छायाम् // 5131112 // इरनिच्छायां वर्तमानात स्त्रियां