SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 76 सिद्धहैमबृहत्मक्रिया. [व्यंजनान्तपुंल्लिङ्ग __ 365 उः पदान्तेऽनूत् // 2 / 1 / 118 // पदान्ते वर्तमानस्य दिवोऽन्तस्योकारादेशः स्यात् , स च अनूत्-तस्य उकारस्य दीर्घत्वं न भवतीत्यर्थः / प्रियाभ्याम् / भियधुभिः / पदान्त इति किम् / दिवन्ति / अनूदिति किम् / अधौधौंभवतीत्यत्र -- दीर्घवियङ्' इत्यादिना च्वौ दीर्घत्वं न भवति / ऊकारस्य प्रतिषेधाद् वृद्धिर्भवत्येव / धुकामस्यापत्यं चौकामः / दिवाश्रयः, दिवौकस इति तु पृषोदरादित्वादकारागमे भविष्यति / वृत्तिविषये वाऽकारान्तो दिवशब्दोऽस्ति / शकारान्तो विश्शब्दः / यजसृजेति षत्वे विट्-ड् / विशौ / विशः / विशम् / विशौ / विट्त्सु / विसु / एवं तत्वप्राट्-ड्। तत्वप्राशौ / तत्वप्राशः इत्यादि / ऋविजित्यादिना पदान्ते गत्वे / तादृक्-ग् / तादृशौ / तादृग्भ्यामित्यादि / एवं सुदिश् सदृश घृतस्पृशादयः। 1. 366 नशो वा / / 2 / 1 / 70 // नशेः पदान्ते गोऽन्तादेशो वा स्यात् / जीवस्य नशनम् जीवनक्-ग् / पक्षे जीवनट-ड् / जीवनशौ।जीवनशः।जीवनग्भ्याम्। जीवनड्भ्यामित्यादि / पदान्त इत्येव / जीवनशौ / षकारान्तो दधृष शब्दः / धृष्णोतीति दधृक्-ग् / दधृषौ / दधृग्भ्याम् / रत्नानि मुष्णातीति रत्नमुट्-ड्। रत्नमुषौ / रत्नमुषः / रत्नमुषा / रत्नमुड्भ्यामित्यादि / षष्शब्दो नित्यं बहुवचनान्तः / डतिष्ण इति जस्शसो क् / षट्-ड् 2 / षभिः। षड्भ्यः 2 / षण्णाम् / षट्सु / प्रियषट्-ड्। प्रियषषौ। प्रियषषः / प्रियषषाम् / प्रियषट्सु / 367 सजुषः / / 2 / 1 / 72 // सजुष् इत्येतस्य पदान्ते वर्तमानस्य रुरन्तादेशः स्यात् / . 368 पदान्ते / / 2 / 1 / 64 // पदान्ते वर्तमानयोर्धादिसंबंधिनो रेफवकारयोः परयोस्तस्यैव भ्वादेर्नामिनो दीर्घः स्यात् / सह जुषते इति सजूदेवैः। सहपूर्वस्य जुषेः क्विपि सहस्य सभावे रूपमेतत् / सजुषौ / सजुषः / सजुषम् / सताम् / इत्यादि / सकारान्तः सुवचस् शब्दः / अभ्वादेरिति दीर्थे / सुवचाः / सुवचसौ / सुवचसः / सुवचोभ्याम् / हे सुवचः। 369 णषमसत्परे स्यादिविधौ च // 2 / 1 / 60 // इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् पूर्वस्मिँश्च स्याघधिकारविहिते विधौ कर्तव्ये णत्वं वाऽसदसिद्धं द्रष्टव्यम् / एतत्सूत्रनिर्दिष्टयोश्च णत्वषत्वयोः परे षत्वे णत्वमसद् द्रष्टव्यम् / णषशास्त्रं वा परे स्यादिविधौ च शास्त्रे प्रवर्तमानेऽसद् द्रष्टव्यम् / असत्पर इत्यधि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy