________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 359 अनक् // 2 // 1 // 36 // त्यदादिसंबंधिनि व्यंजनादौ स्यादौ परेऽग्वर्जित इदम अत् स्यात् / अभेदनिर्देशः सर्वादेशार्थः तकार उच्चारणार्थः। आभ्याम् / अनगिति किम् / इमकाभ्याम् / तत्संबंधिविज्ञानादिह न / अतीदंभ्याम् / इह तु भवत्येव / परमाभ्याम् / 1 अत्र पूर्वोत्तरयोः पदयोः पूर्व कार्ये कृते पश्चात् संधिकार्यम् / एतच्च ‘आतो नेन्द्रवरुणस्य' इत्यत्र ज्ञापयिष्यते। / - 360 इदमदमोऽक्येव // 14 // 3 // इदम् अदस् इत्येतयोरक्येव सत्यकारात्परस्य भिस ऐस स्यात् / इति नियमात् 'एबहुस्भोसी'त्येत्वे एभिः। अकि तु इमकैः / सर्वादित्वाद् अस्मै / आभ्याम् / एभ्यः / अस्मात् / अस्य / अनयोः 2 / एनयोः 2 / एषाम् / अस्मिन् / एषु / चतुर्शब्दो बहुवचनान्तः। . . 361 वाः शेषे // 1 / 4 / 82 // आमंत्र्यार्थविहितात् सेरन्यो घुट् इह शेषः / तस्मिन् परेऽनडुह चतुरित्येतयोरुकारस्य वा इत्याकारान्तो वकार आदेशः स्यात् / चत्वारः / प्रियचत्वाः / प्रियचत्वासै / प्रियचत्वारः / चतुरः / चतुर्भिः / चतुर्य: 2 / संख्यानां र्णाम् / णत्वम् / द्वित्वम् / चतुर्णाम् / चतुर्णाम् / प्रियचतुराम् / सुपि रस्य विसर्गषकारौ प्राप्तौ / / - 362 अरोः सुपि रः // 1 / 3 / 57 // रुवर्जितस्य रेफस्य स्थाने सुपि परे रेफ एव स्यात् , कार्यान्तरवाधनार्थः / चतुषु / 363 उतोऽनडुच्चतुरो वः॥ 11481 // अनुडुह् चतुर् इत्येतयोराम व्येऽर्थे वर्तमानयोरुकारस्य सौ परे व इति सस्वरवकारादेशः स्यात् / हे प्रियचखः। लकारान्तः कमल शब्दः / कमलं कमलां वा आचक्षाणः कमल / कमलौ / कमलः / कमलम् / कमलौ / षत्वम् / कमल्षु / वकारान्तः पियदिव् शब्दः। ., 364 दिव औः सौ // 2 / 1 / 117 // दिवोऽन्तस्य सौ परे औः स्यात् / प्रियद्यौः। प्रियदिवौ / प्रियदिवः / पियदिवम् / पियदिवौ / 'निरनुबंधग्रहणे न तु घोशब्दस्य 'आ अम्शसोऽता'' इत्याकारे रूपम् गतम् / / सापेक्षत्वेन बहिरङ्गादन्तरङ्गे अवर्णस्यैत्वे कृते इदम्पाभावाददादेशो न स्यादि त्यंत आह-अत्रेति / ..... .. .... .. ..... ....