________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 875 किम् / विशयः। उपशयः। 1100 हस्तप्राप्ये चेरस्तये // 5 / 3 / 78 // हस्तेनोपायान्तरनिरपेक्षेण प्राप्तुं शक्यं हस्तप्राप्यम् / तद्विषयाचिनोतेर्भावाकोंर्घञ् स्यात् अस्तेये-न चेद् धात्वर्थः स्तेये चौर्ये भवति / हस्तप्राप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते / तेन प्रत्यासत्तिविषये धावर्थे विधानम् / पुष्पपचायः। फलाबचायः / फलोच्चायः। फलोचायश्च संहतैः / उदो नेच्छन्त्यन्ये / फलोच्चयः / हस्तपाप्य इति किम् / पुष्पप्रचय करोति तरुशिखरे / अस्तेय इति किम् / स्तेयेन पुष्पप्रचयं करोति। हस्तपाप्यशब्देन प्रमाणमप्युच्यते / यद्धस्ते संभवति न हस्तादतिरिच्यते इति / ततश्च 'माने'-इत्यनेनैव सिद्धे नियमार्थ वचनम् / अस्तेय एवेति, तेन पुष्पाणां हस्तेन प्रचयं करोति चौर इत्यत्र ' माने ' इत्यनेनापि घञ् न। 1101 चितिदेहावासोपसमाधाने कश्चादेः // 5 // 3 // 79 // चीयत इति चितिर्यज्ञेऽग्निविशेषः तदाधारो वा। देहः शरीरम् / आवासो निवासः उपसमाधानमुपर्युपरि राशीकरणम् / एष्वर्थेषु चिनोतेर्भावाकोंर्घञ् तत्संनियोगे चादेः ककारादेशः स्यात् / चितौ-आकायमग्निं चिन्वीत / देहे-कायः शरीरम् / आवासेऋषिनिकायः / उपसमाधाने-गोमयनिकायः। गोमयपरिकायः। कथं काष्ठनिचयः ? बहुखमात्रविवक्षया / एष्विति किम् / चयः / चः क इत्येव सिद्धे आदिग्रहणमादेरेव यथा स्यात् , तेन चेर्थङ्लुपि निकेचाय इत्येव भवति / 1102 संघेऽनूचे // 5 / 3 / 80 // न विद्यते कुतश्चिदूर्ध्वमुपरि किंचिद् यस्मिन् सोऽन्यः / तस्मिन् संघे माणिसमुदायेऽभिधेये चिनोते वाकळर्घञ् तत्संनियोगे चादेः कः / वैयाकरणनिकायः / तार्किकनिकायः / संघ इति किम् / सारसमुच्चयः। प्रमाणसमुच्चयः। अनूय इति किम् / सूकरनिचयः। सूकरा ह्युपर्युपरि चीयन्ते / 1103 माने // 5 // 3 // 81 // माने गम्यमाने धातोर्भावाकोंर्घञ् स्यात् / मानमियत्ता / सा च द्वेधा / संख्या परिमाणं च / एको निघासः / द्वौ निघासौ। एकस्तण्डुलावक्षायः / एकस्तण्डुलनिश्चायः / एकः कारः। द्वौ कारौ / त्रयः काराः। द्वौ सर्पनिष्पावौ / समित्संग्राहः / तण्डुलसंग्राहः / मुष्टिरित्यर्थः / मान इति किम् / निश्चयः। अल एवायमपवादः। क्यादिभिस्तु बाध्यते / एका तिलोच्छ्रितिः। द्वे प्रसृती। 1104 स्थादिभ्यः कः // 5 // 3 // 82 // स्थादिभ्यो धातुभ्यो भावाकोंः कः