________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 871 परिहण्यतेऽनेनेति परिघोऽर्गला / लत्वे पलियः / 1063 6H समाह्वयाह्वयौ यूतनाग्नोः।।५।३।४१।। करण इति निवृत्तम् / द्यूते नानि चाभिधेये यथासंख्यं समापूर्वादापर्वाच्च हयतेरल् हयादेशश्च निपात्यते / समाहृयः प्राणिद्यूतम् / आयो नाम / 1064 न्यभ्युपवेर्वाश्चोत् / / 5 / 3 / 42 // नि-अभि-उप-विभ्यः पराद् हयतेर्भावाकोरल् तत्संनियोगे च वाशब्द उकारः स्यात् / अभेदनिर्देशः सर्वादेशार्थः / निहवः / अभिहवः / उपहवः / विहवः / न्यभ्युपवेरिति किम् / पहायः। ह इत्येव / निवायः / हो हव इत्यनिपातनं किम् / यलुपि निपातनं मा भूत् / तेन विजोहव इति सिद्धम् / अन्यथा विहव इति स्यात् / जुहोतिनैव सिद्धे हयतेरूपान्तरनिवृत्त्यर्थं वचनम् / 1065 आडो युद्धे // 5 // 3 // 43 // आपूर्वाद् हयतेयुद्धेऽथै भावाअोरल् स्यात् वाशब्दश्वोकारः। आहूयन्ते योद्धारोऽस्मिनित्याहवो युद्धम् / युद्ध इति किम् / आहायः, आहानम् / 1066 आहायो निपानम् // 5 // 3 // 44 // निपिबन्त्यस्मिन्निपानम् / पशुशकुनीनां पानार्थ कृतो जलाधारः / आपूर्वाद् हयतेर्भावाकोरल आहावादेशश्च निपात्यते निपानं चेदभिधेयं स्यात् / आहूयन्ते पशवः पानायास्मिन्नित्याहावः पशूनाम् / आहावः शकुनीनाम् / निपानमित्यर्थः / निपानमिति किम् / आहायः, आह्वानम् / 1067 भावेऽनुपसर्गात् / / 5 / 3 / 45 // अविद्यमानोपसर्गाद् हयतेर्भावेऽल् वाशब्दश्वोकारः। अकर्तरीत्यस्यानुप्रवेशो मा भूदिति भावग्रहणम् / हानं हवः / भाव इति किम् / कर्मणि हायः। अनुपसर्गादिति किम् / आह्वायः। 1068 हनो वा वध् च // 5 // 3 // 46 // अनुपसर्गाद हन्तेर्भावेऽल वा स्यात तत्संनियोगे चास्य वधादेशः। हननं वधः। घातः / अनुपसर्गादित्येव / संघातः / 1069 व्यधजपमयः // 5 / 3 / 47 // एभ्योऽनुपसर्गेभ्यो भावाकोरल स्यात् / बहुवचनाद् भाव इति निवृत्तम् / व्यधः। जपः / मदः / अनुपसर्गादित्येव / आव्याधः / उपजापः। उन्मादः।। 1070 नवा कणयमहसस्वनः // 5 // 3 // 48 // अनुपसर्गेभ्य एभ्यो भावा कोरल् वा स्यात् / कणः, काणः। यमः, यामः / हसः / हासः / खनः, स्वानः