SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ 870 सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त कृतघत्वादयोऽलन्ता निपात्यन्ते / समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्नं निमितम् / तुल्यारोहपरिणाहमित्यर्थः। निर्विशेषं निश्चयेन वा हन्यन्ते ज्ञायन्ते निघा वृक्षाः / निघाः शालयः / निघा बृहतिका / निघं वस्त्रम् / निघातोऽन्यः / उत्कर्षेण हन्यते ज्ञायते उद्घः प्रशस्तः। उद्घातोऽन्यः / गणः प्राणिसमूहः / संहतिः संघः / अन्यत्र संघातः / कथं संघातो मनुष्याणाम् ? संघातशब्दः समुदायमात्रे / अत्याधीयन्ते छेदनार्थ कुट्टनार्थं च काष्ठादीनि यत्र तदत्याधानम् / उद्धन्यतेऽस्मिन्निति उद्घनः / काष्ठोद्घनः / ताम्रोद्घनः / लोहोद्घनः / घनः स्कन्धः / उद्घातोऽन्यः / अझं शरीरावयवः / अपहन्यतेऽनेनेत्यपघनोऽङ्गम्। व्रणिभिरपघनैर्घर्घरा व्यक्तघोषान् / पाणिः पादचापघनो नापरमङ्गमित्यन्ये / अपघातोऽन्यः / उपहन्यते समीप इति ज्ञायते उपनः आसन्नः / गुरूपन्नः / ग्रामोपन्नः। उपघातोऽन्यः / निपातनादेवोपात्तार्थविशेषे वृत्तिरसरूपपत्ययबाधनं च विज्ञायते / 1059 मूर्तिनिचिताभ्रे घनः // 5 // 3 // 37 // हन्तेर्मूादिष्वर्थेषु अल् प्रत्ययो घनादेशश्च निपात्यते / मृतिः काठिन्यम् / अभ्रस्य घनः काठिन्यमित्यर्थः / एवं दधिधनः / लोहघनः / निचितं निरन्तरम् , तत्र घनाः केशाः / घनाः ब्रीहयः / अभ्रं मेघः, तत्र घनः। कथं घनं दधि ? गुणशब्दोऽयम् , तद्योगाद् गुणिन्यपि वर्तते। 1060 व्ययोद्रोः करणे // 5 // 3 // 38 // वि अयस् द्रु इत्येतेभ्यः पराद् हन्तेः करणेऽल प्रत्ययो घनादेशश्च निपात्यते / भावस्य कारकान्तरस्य चानुप्रवेशो मा भूदिति करणग्रहणम् / विहन्यतेऽनेन तिमिरं विघनः / विघनेन्दुसमद्युतिः / वयः पक्षिणो हन्यन्तेऽनेनेति वा विघनः, अयोधनः / द्रुः हन्यतेऽनेनेति दुघनः कुठारः। कथं द्रुघणः ? अरीहणादिपाठाण्णत्वे भविष्यति / घणतेाऽजन्तस्य रूपम् / स्त्रियां त्वनडेव परत्वात् / विहननी / अयोहननी / द्रुहननी / 1061 स्तम्बाद घनश्च // 53 // 39 // स्तम्बशब्दात् पराद् हन्तेरल घनघनादेशौ च निपात्येते करणे / स्तम्बो हन्यतेऽनेन स्तम्बघ्नो दण्डः। स्तम्बघनो यष्टिः। स्त्रियां परत्वादनडेव / स्तम्बहननी यष्टिः। केचित्त कप्रत्यये निपातनं कृत्वा स्त्रियामपि स्तम्बघ्नेति इच्छन्ति / अन्ये तु स्तम्बपूर्वस्यापि हन्तेः 'सातिहेती'ति निपातनात स्तम्बहेतिरितीच्छन्ति / करण इत्येव / स्तम्बहननं स्तम्बघातः। कथं स्तम्बनीषीका ? करणस्यापि कर्तृविवक्षया 'अचित्ते टक्' इत्यनेन टकि सिद्धम् / . 1062 परेघः / / 5 / 3 / 40 // परिपूर्वाद्धन्तेरल् पादेशश्च करणे निपात्यते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy