________________ पकरणम्] सिद्धहैमबृहत्मक्रिया. अनपुंसकक्तस्तु असरूपविधिना भवत्येव / वृष्यते स्म दृष्टं मेघेन / भीतं बटुना। 1052 समुदोऽजः पशौ // 5 // 3 // 30 // समुद्भ्यां परादजतेः पशुविषये धात्वर्थे वर्तमानात भावाकोरल् स्यात् / समजः पशूनां समूह इत्यर्थः। उदजः पशूनां प्रेरणमित्यर्थः / समुद इति किम् / व्याजः पशूनाम् / पशाविति किम् / समाजः साधूनाम् / उदाजः खगानाम् / 1053 मृग्लहः प्रजनाक्षे / 5 / 3 / 31 / / सतिगृहिभ्यां यथासंख्यं प्रजनाक्षविषये धात्वर्थे वर्तमानाभ्यां भावाकोरल् स्यात् / गवामुपसरः / पशूनामुपसरः। वीनामुपसरं दृष्ट्वा / प्रजनो गर्भग्रहणम् / तदर्थ स्त्रीषु पुसां प्रथमं सरणमुपसर उच्यते / अक्षाणां ग्लहः ग्रहणमित्यर्थः। ग्रहेः सूत्रनिपातनाल्लत्वम् / ग्लहिः प्रकृत्यन्तरं वा / प्रजनाक्ष इति किम् / उपसारो भृत्यै राज्ञाम् / ग्लहः ग्लाहो वा पादस्य / कथं परिसरविषमेषुलीढमुक्तौ ? अधिकरणे पुंनान्नि घेन सिद्धम् / 1054 पणेर्माने / / 5 / 3 / 32 // पणेर्मानेऽर्थे वर्तमानाद् भावाकोरल् स्यात् / मुलकपणः। शाकपणः। पण्यत इति पणः, मूलकादीनां संव्यवहारार्थ परिमितो मुष्टिरित्यर्थः / मान इति किम् / पाणः। घोऽपवादो योगः। 1055 संमदप्रमदो हर्षे // 5 // 3 // 33 // संमद प्रमद इत्येतौ भावाकोहर्षेऽर्थेऽलन्तौ निपात्येते। सम्मदः कोकिलानाम् / प्रमदः कन्यानाम् / हर्ष इति किम् / संमादः / प्रमादः / संपान्मद इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् / तेगोपसर्मान्तरयोगे न / प्रसंमादः / संप्रमादः / अभिसंमादः। 1056 हनोऽन्तर्घनान्तर्घणौ देशे // 5 // 3 // 34 // अन्तःपूर्वाद् हन्तेरल प्रत्ययो घनघणौ चादेशौ निपात्येते देशेऽभिधेये भावाकोंः / अन्तर्हण्यतेऽस्मिनित्यन्तर्घनः अन्तर्घणो वा वाहीकेषु देशविशेषः / अन्तर्घातोऽन्यः / एके त्वन्तः संहतो देशोऽन्तर्घनः / अभ्यन्तरो देश इति केचित् / तस्मिन्नन्तर्घणेऽपश्यत् / घणिः प्रकृत्यन्तरमित्यन्ये / 1057 प्रघणप्रघाणौ गृहांशे // 5 // 3 // 35 // प्रपूर्वाद् हन्तेहांशेऽभिधेयेऽल् प्रत्ययो घणघाणौ चादेशौ निपात्येते / प्रघणः प्रघाणो वा द्वारालिन्दकः / प्रघातोऽन्यः। 1058 निघोघसंघोद्घनापघनोपन्नं निमितप्रशस्तगणात्याधानानासन्नम् // 5 // 3 // 36 // हन्तेनिघादयः शन्दा यथासंख्यं निमिवादिषु वाच्येषु