________________ कृदन्त सिद्धहैमबृहत्मक्रिया. [उत्तरकृदन्त टगादीनपि / तेन वक्रगायो व्रजति सुरापायो व्रजति गोदायो व्रजति / बहुलाधिकाराण्णकच्भविष्यन्त्यावपि भवतः / कटं कारको व्रजति / ओदनं भोजको व्रजति / काण्डानि लविष्यामि इति व्रजति / कम्बलं दास्यामीति व्रजति / 1032 भाववचनाः // 5 // 3 // 15 // भाववचना घक्त्यादयस्ते क्रियायां क्रियार्थायामुपपदे वय॑त्यर्थे वर्तमानाद् धातोः स्युः। क्रियार्थीपपदेन तुमा मा बाधिषतेति वचनम् / असरूपविध्यभावस्य ज्ञापितत्वात् / पाकाय पक्तये पचनाय पाचनायै वा व्रजति। वचनग्रहणाद् यो यथा विहितः स तथा भवति। 'तुमोऽर्थे भाववचनात् ' इति चतुर्थी। 1033 पदरुजविशस्पृशो घम् // 5 // 3 // 16 // एभ्यो धातुभ्यो घञ् प्रत्ययः स्यात् / कृत्त्वात् कर्तरि / वर्त्यतीत्यादि निवृत्तम् / पद्यते पत्स्यते अपादि पेदे वा पादः / एवं रोगः / वेशः। स्पर्शी व्याधिविशेषः / स्पर्शो देवदत्तः कम्बलस्य / घकारः कत्वगत्वार्थः / अकारो वृद्धयर्थः / - 1034 सर्तेः स्थिरव्याधिवलमत्स्ये // 5 // 3 // 17 // सर्तेरेषु कर्तृषु घञ् स्यात् / स्थिरे-सरति कालान्तरमिति सारः स्थिरः पदार्थः / सालसारः। खदिरसारः / कार्यसारः / व्याध्यादौ-अतीसारः व्याधिः, सारो बलम् / विसारो मत्स्यः। 1035 भावाकोंः // 5 // 3 // 18 // भावे वाच्ये कर्तवर्जिते कारके च सर्वधातुभ्यो घब् स्यात् / पचनं पाकः / एवं रागः। त्यागः। प्रकुर्वन्ति तमिति प्राकारः। एवं पासः। प्रसेवः / समाहारः / कारः। करणाधिकरणयोरनट तदपवादश्च व्यञ्जनान्तेभ्यो घञ् वक्ष्यते / दाशन्तेऽस्मा इति दाशः। तालव्योपान्त्योऽयम् / आहरन्त्यस्मादित्याहारः। असंज्ञायामपि / दायो दत्तः / लाभो लब्धः / कृतः कटो हृतो भार इत्यादौ बहुलाधिकारान्न / अकत्रिति पयुदासेन कारकाश्रयणात संबन्धे न / देवदत्तस्य पच्यते / भावाकोरिति किम् / पचः / भावो भवत्यर्थः साध्यरूपः क्रियासामान्यं धात्वर्थः स धातुनैवोच्यते तत्रैव च त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति / यस्तु भावो धात्वर्थधर्मः सिद्धता नाम लिङ्गसंख्यायोगी द्रव्यवद् धात्वर्थादन्यः / तत्रायं घनादिविधिः। तेन तद्योगे लिङ्गवचनभेदः सिद्धो भवति / पाकः ।पाको। पाकाः। पचनं, पचने, पचनानि। पक्तिः, पक्ती, पक्तयः / इति / 1036 स्फुरस्फुलोर्घति // 4 / 2 / 4 // स्फुरस्फुलोर्घत्रि सन्ध्यक्षरस्याकारः स्यात् / विस्फारः, विस्फालः / विष्फारः, विष्फालः / 'वेः' इति वा षत्वम् /