________________ सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्त कारके भावे चोणादयः प्रत्ययाः स्युः। कृत्वात् कर्तर्येव प्राप्ताः कर्मादिष्वपि कथ्यन्ते / करोतीति कारुः / वातीति वायुः। कषितोऽसाविति कर्मणि कषिः / तन्यतेऽसाविति तनुः / ऋचन्ति तयेति ऋक् / वृत्तं तत्रेति वर्त्म / चरितं तत्रेति चर्म। // इत्युणादिविवृतिः // // अथोत्तरकृदन्तप्रकरणम् // 1024 वय॑ति गम्यादिः // 5 / 3 / 1 / गम्यादयः शब्दा वर्त्यति भविष्यति धावर्थे इन्नादिप्रत्ययान्ताः साधवः स्युः / अनेन सामान्यतः सिद्धानां प्रत्ययानां भविष्यद्धावर्थता विधीयते / गमिष्यतीति गमी ग्रामम् / इन्नौणादिकः सति प्राप्तो वस्य॑ति भवति / आगामी / भावी / प्रस्थायी / एभ्य औणादिको णिन् / प्रयायी। प्रतियायी / प्रतिबोधी / प्रतिरोधी। एभ्योऽजाते: शीले आवश्यके वा णिन् सिद्धो भविष्यति नियम्यते / कथं श्वो ग्रामं गमी ? भविष्यत्सामान्ये पदं निष्पाय पश्चाच्छ्वःशब्देन योगः कार्यः। 1025 वा हेतुसिद्धौ क्तः // 5 // 3 // 2 // हेतुः कारणं तस्य सिद्धिः निष्पत्तिः, वर्त्यर्थे वर्तमानाद् धातोः धावर्थे हेतोः सिद्धौ सत्यां क्तः प्रत्ययो वा स्यात् / किं ब्रवीषि वृष्टो देवः संपन्नास्तहिं शालयः। संपत्यस्यन्त इति वा / प्राप्ता नौस्तीर्णा तर्हि नदी / तरिष्यत इति वा। 1026 कषोऽनिटः // 5 // 3 / 3 / / कषेः कृच्छगहनयोरनिट्वमुक्तम् / तस्माद् वय॑ति वर्तमानात् क्तः स्यात् / कषिष्यतीति कष्टम् / कष्टा दिशस्तमसा। सत्यपि कश्चित् / कति कष्टम् / अनिट इति किम् / कषिताः शत्रवः शूरेण / 1027 क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती // 5 // 3 // 13 // वेति निवृत्तम् / यस्माद् धातोस्तुमादिः तद्वाच्या या क्रिया सार्थः प्रयोजनं यस्याः सा क्रियार्था / तस्यां क्रियायामुपपदे वत्स्य॑त्यर्थे वर्तमानाद् धातोस्तुम्णकचभविष्यन्तीप्रत्ययाः स्युः / कर्तुं व्रजति / कारको व्रजति / करिष्यामीति व्रजति / भोक्तुं व्रजति / भोजको व्रजति / भोक्ष्ये इति व्रजति / क्रियायामिति किम् / भिक्षिष्ये इत्यस्य जटाः / क्रियार्थायामिति किम् / धावतस्ते पतिष्यति वासः / अत्रास्ति धावनक्रियोपपदं न खसौ पतनार्थमुपात्तेति न भवति / णकतृचौ इति सामान्येन सिद्धे क्रियार्थोपपदभाविन्या भविष्यन्त्या बाधा मा भूदिति णकज्विधानम् / अस