________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 859 __ अशेर्यश्वादिः // 958 // अशश भोजने अशौटि व्याप्तावित्यस्माद्वास् प्रत्ययो यकारश्च धाखादिः स्यात् / यशः माहात्म्यम् सत्त्वं श्रीः ज्ञानं प्रतापः कीर्तिश्च / एवं शोभनमश्नाति अनुते वा सुयशाः / नागमेवानाति नागयशाः / बृहदेनोऽनाति बृहद्यशाः / श्रुत एनोऽश्नाति श्रुतयशाः / एवमन्येऽपि द्रष्टव्याः। उर्ज च // 959 / / उधू दाहे इत्यस्मादस् प्रत्ययो जकारश्चान्तादेशः स्यात् / ओजः बलं प्रभावः दीप्तिः शुक्रं च / ___ स्कन्दे च // 960 // स्कन्दं गतिशोषणयोः इत्यस्मात् अस् प्रत्ययो धकारवान्तादेशः स्यात् / स्कन्धः स्वाङ्गम् / अवेर्वा // 961 // अव रक्षणादावित्यस्मादस् प्रत्ययो धकारश्चान्तादेशो वा / अधः अवरम् / अवः रक्षा। __अमेर्भही चान्तौ 1962 // अम गतावित्यस्मादस् प्रत्ययो भकारहकारी चान्तौ स्याताम् / अम्भः पानीयम् / अंहः पापम् अपराधः दिनश्च / __अदेरन्ध च वा // 963 // अदंक् भक्षणे इत्यस्मादस् प्रत्ययोऽन्धादेशश्चास्य वा स्यात् / अद्यते तदिति अन्धः अन्नम् / अद्यते दृशा मनसा च तत् इति अदः। अनेन प्रत्यक्षविप्रकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते / ___आपोऽपाप्ताप्सराब्जाश्च // 964 // आप्लंट् व्याप्तावित्यस्मात् अस् प्रत्ययोऽप् अप्त् अप्सर अब्ज इत्यादेशाश्चास्य स्युः / अपः सत्कर्म / अतः तदेव / अप्सरसः देवगणिकाः। अब्जः जलजम् अजय च रूपम् / उच्यश्चेः क च // 965 // उचच समवाये अञ्चू गतौ चेत्याभ्यामस् प्रत्ययोऽनयोश्च कोऽन्तादेशः स्यात् / ओकः आलयः जलौकसश्च / अङ्कः स्वाङ्गं रणश्च / - अज्यजियुजिभृजेर्ग च // 966 // एभ्योऽस् प्रत्ययो गकारश्चान्तादेशः स्यात् / अञ्जौप व्यक्त्यादौ / अङ्गः क्षत्रियनाम गिरिपक्षी व्यक्तिश्च / अज क्षेपणे च / अगः क्षेमम् / युनूंपी योगे। योगः मनः युगं च / भृजैङ् भर्जने। भर्गः रुद्रः हविः तेजश्च / ____ अर्तरुराशी च // 967 // ऋक् गतावित्यस्मादस् प्रत्ययोऽस्य चोरिति अर्थ इति च तालव्यशकारान्त आदेशः स्यात् / उरः वक्षः। अशीसि गुदादिकीलाः / - येन्धिभ्यां यादेधौ च // 968 // यांक प्रापणे निइन्धैपि दीप्तौ इत्याभ्यामस् प्रत्ययो यथासंख्यं च याद् एष इत्यादेशौ स्याताम् / यादः जलदुष्ट सत्त्वम् /