SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ 858 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते णमं प्रहत्वे / नमः पूजायाम् / तमूच् काङ्क्षायाम् / तमः अन्धकारः तृतीयगुणः अज्ञानं च / इणंक गतौ। अयः काललोहम् / वींक प्रजनादौ / वयः पक्षी प्राणिनां कालकृता शरीरावस्था च यौवनादिः। वर्चि दीप्तौ / वर्चः लावण्यम् अन्नमलं तेजश्च / सुष्ठु वर्चते इति सुवर्चाः / रक्ष पालने / रक्षः निशाचरः / जिमिदाच् स्नेहने / मेदः चतुर्थी धातुः। रह त्यागे / रहः प्रच्छन्नम् / पहि मर्षणे / सहाः मार्गशीर्षमासः / णभच् हिंसायाम् / नभः आकाशं श्रावणमासश्च / चितै संज्ञाने / चेतः चित्तम् / प्रचेता वरुणः / मनिंच ज्ञाने / मनः नोइन्द्रियम् / अग्क व्यक्तायां वाचि / वचः वचनम् / रुदृक् अश्रुविमोचने / रोदः नमः। रोदसी द्यावापृथिव्यौ / रुधूपी आवरणे / रोधः तीरम् / अनक् प्राणने / अनः शकटम् अन्नं भोजनं च / सं गतौ / सरः जलाशयविशेषः। तृ प्लवनतरणयोः। तरः वेगः बलं च / रहु गतौ। रंहः जवः। तिजि क्षमानिशानयोः / तेजः दीप्तिः / मयि गतौ। मयः मुखम् / मह पूजायाम् / महः तेजः / अचिण् पूजायाम् / अर्चः पूजा। पद्ल विशरणादौ। सदः सभा भवनं च / अञ्जौप व्यक्त्यादौ / अञ्जः स्नेहः / / पाहाभ्यां पयह्यौ च 953 // पां पाने ओहांक त्यागे इत्याभ्यामस् प्रत्ययः स्यात् यथासंख्यं च पय् ह्य इत्यादेशावनयोः स्याताम् / पयः क्षीरं जलं च / ह्यः अनन्तरातीते दिने / - छदिवहिभ्यां छन्दोधौ च // 954 // छदण संवरणे वहीं प्रापणे इत्याभ्यामस् प्रत्ययो यथासंख्यं चानयोः छन्द ऊध् इत्यादेशौ स्याताम् / छन्दः वेदः इच्छा वाग्बन्धविशेषश्च / ऊधः धेनोः क्षीराधारः।। श्वेः शव च वा // 955 // वोश्चि गतिवृद्धयोरित्यस्मात् अस् प्रत्ययः स्यात् अस्य च शव् इत्यादेशो वा / शवः रोगाभिधानं मृतदेहश्च / शवसी / शवांसि। श्वयः शोफः बलं च / श्वयसी / श्वयांसि / विश्वाद् विदिभुजिभ्याम् // 956 // विश्वपूर्वाभ्यामाभ्यामस् प्रत्ययः स्यात् / विदक् ज्ञाने / विश्ववेदाः अग्निः / भुजंप पालनाभ्यवहारयोः। विश्वभोजाः अग्निः लोकपालश्च / चाये! ह्रस्वश्च वा // 957 // चायग् पूजानिशामनयोः इत्यस्मात् अस् प्रत्ययो नकारोऽन्तादेशो इखश्चास्य वा। चणः चाणश्चान्नम् / बाहुलकाण्णवम् / णत्वं नेच्छन्त्येके।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy