________________ 856 . सिद्धहैमबृहत्मक्रिया. .[कृदन्ते . आपः किप् ह्रस्वश्च // 931 // आप्लंट् व्याप्तावित्यस्मात् किप् प्रत्ययो इस्वश्चास्य / आपः अम्भः। स्वभावाद् बहुत्वम् / ककुत्रिष्टुबनुष्टुभः // 932 // एते किप्पत्ययान्ता निपात्यन्ते / कपूर्वात् स्कुनातेः सलोपश्च / कं वायुं ब्रह्म च स्कुनन्तीति ककुभो दिशः। ककुप उष्णिक छन्दः / ज्यनुपूर्वात् स्कुनातेः सः षश्च / त्रिष्टुप् छन्दः। अनुष्टुप् छन्दः / बहुवचनानिजिविजिविषां किप् शित् / नेनिक् प्रजापतिः। वेविक् शुचिः। वेविट् चन्द्रमाः। ____ अवेमः // 933 // अव रक्षणादावित्यस्मान्मः प्रत्यय: स्यात् / अवतीति ओम् ब्रह्म प्रणवश्च / __सोरेतेरम् // 934 // सुपूर्वादिणंक् गतावित्यस्मात् अम् प्रत्ययः स्यात् / स्वयम् आत्मना। नशिनूभ्यां नक्तनूनौ च // 935 / / नशौच अदर्शने यत् स्तवने आभ्यामम् प्रत्ययो नक्त नून इत्यादेशौ चानयोः / नक्तं रात्रौ / नूनं वितर्के / - स्यतर्णित् // 936 // षोंच् अन्तकर्मणीत्यस्मात् णिदम् प्रत्ययः स्यात् / सायं दिवसावसानम् / गमिजमिक्षमिकमिशमिसमिभ्यो डित् // 937 // एभ्यो डिदम् प्रत्ययः स्यात् / गम्लं गतौ / गम् / जमू अदने / जम् / क्षमौषि सहने / क्षम् / एतानि भार्यानामानि / कमूङ् कान्तौ। कम पानीयम् / शमूच उपशमे / शम् सुखम् / षम वैक्लव्ये / सम् / संभवति / इणो दमक // 938 // इणंक गतावित्यस्मात् कित् दम् प्रत्ययः स्यात् / इदम् प्रत्यक्षनिर्देशे। कोर्डिम् // 939 // कुंङ् शब्दे इत्यस्मात् डिदिम् प्रत्ययः स्यात् / किम् / अनेनाविज्ञातं वस्तु पर्यनुयुज्यते / तूषेरीम् णोऽन्तश्च // 940 // तूष तुष्टावित्यस्मादीम् प्रत्ययो णकारश्चास्यान्तः स्यात् / तूष्णीं वानियमे / ईङ्कमिशमिसमिभ्यो डित् // 941 // एभ्यो डिदीम् प्रत्ययः स्यात् / ईच् गतौ / ईम् / कमूङ् कान्तौ / कीम् / शमूच उपशमे / शीम् / षम् वैक्लव्ये / सीम् / अभिनयव्याहरणान्येतानि / ईम् शीम् अव्यक्ते / कीम् संशयप्रश्नादिषु /