________________ उणादिप्रकरणम् ] सिद्धहैमवृहत्मक्रिया. सहभृस्तृसूभ्य ईमन् // 918 // एभ्य ईमन् प्रत्ययः स्यात् / सं गतौ / सरीमा कालः। हंग हरणे / हरीमा मातरिश्वा / टुडु/ग्क् पोषणे च / भरीमा क्षमी राजा कुटुम्बं च / धृग् धारणे। धरीमा धर्मः। स्तृग्श् आच्छादने / स्तरीमा प्रावारः / पूत प्रेरणे। सवीमा गर्भ: प्रसूतिश्च / / गमेरिन् / 919 // गम्लं गतावित्यस्मादिन् प्रत्ययः स्यात् / गमिष्यतीति गमी जिगमिषुः। आश्च णित् // 920 // आपूर्वात् केवलाच्च गमेणिदिन् प्रत्ययः स्यात् / आगमिष्यतीति आगामी प्रोषितादिः। गमिष्यतीति गामी प्रस्थितादिः। सुवः // 921 // पूडौच माणिप्रसवे इत्यस्मात् णिदिन् प्रत्ययः स्यात् / आसावी आसविष्यमाणः। जनिष्यमाण इत्यर्थः। भुवो वा // 922 // भू सत्तायामित्यस्मात् इन् प्रत्यय: स्यात् स च णिद्वा / भविष्यतीति भावी कर्मविपाकादिः / भवी भविष्यन् / प्रप्रतेबुधिभ्याम् // 923 // प्रपूर्वाद प्रतिपूर्वाञ्च यांक प्रापणे बुधि मनिंच ज्ञाने इत्यस्मात् च णिदिन् प्रत्ययः स्यात् / प्रयास्यतीति प्रयायी, प्रतियास्यतीति प्रतियायी / प्रभोत्स्यते इति प्रबोधी प्रतिबोधी बालादिः / प्रात् स्थः ॥९२४॥प्रपूर्वात् ष्ठां गतिनिवृतौ इत्यस्मात् णिदिन् प्रत्ययः स्यात् / प्रस्थास्यते इति प्रस्थायी गन्तुमनाः / परमात् कित् // 925 // परमपूर्वात् तिष्ठतेः किदित् प्रत्ययः स्यात् / परमे पदे तिष्ठतीति परमेष्ठी अहंदादिः / भीरुष्ठानादित्वात् षत्वं सप्तम्या अलुप् च / पथिमन्थिभ्याम् / / 926 // आभ्यां किदिन प्रत्ययः स्यात् / पथे गतौ / पन्थाः मार्गः। पन्थानौ। पन्थानः / पथिपियः / मन्थश् विलोडने। मन्थाः क्षुब्धः वायुः वज्रश्च / मन्थानौ। मन्थानः। मथिपियः। होर्मिन् // 927 / / हुंक् दानादनयोरित्यस्मात् मिन् प्रत्ययः स्यात् / होमी ऋविक् घृतं च। ___ अर्ते क्षिनक् // 928 // ऋक् गतावित्यस्मात् भुतिनक् प्रत्ययः स्यात् / ऋभुक्षा इन्द्रः / ऋभुक्षाणौ / ऋभुक्षाणः / अदस्निन् ॥९२९॥अदंक् भक्षणे इत्यस्मात् त्रिन् प्रत्ययः स्यात् / अत्री ऋषिः। पतेरविन् // 930 // पत्ल गतावित्यस्मादत्रिन् प्रत्ययः स्यात् / पतत्री पक्षी।