________________ उणादिपकरणम् ] सिद्धहैमबृहत्मक्रिया. देवः गिरिशिखरं च। ग्रो मादिर्वा // 890 // गृत् निगरणे इत्यस्मादुत् प्रत्ययः स्यात् स च मकारादि / गर्मुत् गरुडः आदित्यः मधुमक्षिका तक्षा तृणं सुवर्ण च / गरुख बर्हः अजगरः मरकतमणिः वेगः तेजसां वर्तिश्च / शकेत्॥८९१।। शक्लंट् शतावित्यस्माद् ऋत् प्रत्ययः स्यात् / शकृत् पुरीषम् / यजेः क च // 892 // यजी देवपूजादिष्वित्यस्मात् ऋत् प्रत्ययो कश्चान्तादेश स्यात् / यकृत् अन्त्रम् / पातेः कुथ् ॥८९३॥पांक रक्षणे इत्यस्मात् ऋथ् प्रत्ययः कित् स्यात् / पृथो नाम क्षत्रियाः / ___शृदृभसेरद् / / 894 / / एभ्योऽद् प्रत्ययः स्यात् / शृश् हिंसायाम् / शरद् ऋतुः। दृ भये / दरत् जनपदसमानशब्दः क्षत्रियः / दरदो जनपदः / भस भर्त्सनदीप्त्योः , सौत्रः / भसत् जघनम् आस्यम् आमाशयस्थानं च / भषेरपीच्छन्त्येके / भषत् / __तनित्यजियजिभ्यो डद // 895 // एभ्यो डिदद प्रत्ययः स्यात् / तनूयी विस्तारे / तद, सः। त्यजं हानौ। त्यद, स्यः। एतौ निर्देशवाचिनौ / यजी देवपूजादौ / यद्-यः / अयमुद्देशवाचो / इणस्तद् // 896 // इणंक गतावित्यस्मात् तद् प्रत्ययः स्यात् / एतद्-एषः। समीपवाची शब्दः। ___ प्रः सद् // 897 // पृथु पालनपूरणयोरित्यस्मात् सद् इत्येवं प्रत्ययः स्यात् / पर्षत् सभा / द्रो ह्रस्वश्च // 898 // दृश् विदारणे इत्यस्मात् सद् प्रत्ययः स्याद् इस्वश्वास्य। दृषत् पाषाणः। ____ युष्यसिभ्यांक्मद् // 899 // आभ्यां कित् मत् प्रत्ययः स्यात् / युषः सौत्रः, सेवायाम् / युष्मद्-यूयम् / असूच क्षेपणे, अस्मद्-वयम् / . उक्षितक्ष्यक्षीशिराजिधन्विपश्चिपूषिक्लिदिस्निहिनुमस्जेरन॥९००। एभ्योऽन् प्रत्ययः स्यात् / उक्ष सेचने। उक्षा वृषः / तक्षौ तनूकरणे / तक्षा वर्द्धकिः। अक्षौ व्याप्तौ च / अक्षा दृष्टिनिपातः / ईशिक् ऐश्वर्ये / ईशा परमात्मा / राजृग् दीप्तौ राजा ईश्वरः। धन्विः सौत्रो गतौ, धवु गतौ वा / धन्वा मरुः धनुश्च / पचुङ् व्यक्तीकरणे / पञ्च संख्या / पूष वृद्धौ / पूषा आदित्यः / क्लिदौच आर्द्रभावे /