________________ 850 सिद्धहैमबृहत्मक्रिया. [ कूदन्ते संश्चदेहत्साक्षादादयः // 882 // एते कत्मत्ययान्ता निपात्यन्ते / संपूर्वाचिनोतेर्डित् समोमकारस्यानुस्वारपूर्वः शकारश्च / संश्चत् अध्वर्युः कुहकश्च / अनुस्वारं नेच्छन्त्येके / सश्चत् कुहकः / विपूर्वाद् हन्तेर्डिद्वेश्च गुणः। विहन्ति गर्भमिति वेहत् गर्भघातिनी अप्रजाः स्त्री अनवाश्च / संपूर्वादीक्षतेः साक्षाभावश्च / साक्षात् समक्षमित्यर्थः / आदिग्रहणाद्रेहद्वियत्पुरीतदादयोऽपि / पटच्छपदादयोऽनुकरणाः॥८८३॥ पटदित्यादयोऽनुकरणशब्दाः कत्मत्ययान्ता निपात्यन्ते / पट गतौ / पटत् / छुपत् संस्पर्शे, उकारस्याकारश्च / छपत्। पत्ल गतौ / पतत् / शृश् हिंसायाम् / शरत् / शल गतौ / शलत् / खट काङक्षे / खटत् / दहेः प च / दपत् / डिहेः डिपत् / खनते रश्च / खरत् / खादतेः खादत् / सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्याऽनुकरणशब्दाः। अनुकरणमपि हि साध्वेव कर्तव्यं न यत् किंचित् यथानक्षरमिति शिष्टाः स्मरन्ति / . ____ [हिहिमहिपृषिभ्यः कतः // 884 // एभ्यः किदवः प्रत्ययः स्यात् / द्रुहौच जिघांसायाम् / द्रुहन् ग्रीष्मः / वृह वृद्धौ / बृहन् प्रवृद्धः / बृहती छन्दः / मह पूजायाम् / महान् पूजितः विस्तीर्णश्च / महान्तौ / महान्तः / महती। पृषू सेचने। पृषत् तन्त्रं जलबिन्दुः चित्रवर्णजातिः दध्युपसिक्तमाज्यं च / पृषती मृगी / स्थूलपृषतीमालभेत / ऋकारो ङयाद्यर्थः। ___गमेर्डिद् द्वे च / 885 // गम्लं गतावित्यस्मात् कतः प्रत्ययो डित् स्यात् द्वे चास्य रूपे स्याताम् / जगत् स्थावरजङ्गमो लोकः / जगती पृथ्वी / भातेर्डवतुः ॥८८६॥भांक दीप्तावित्यस्मात् डिदवतुः प्रत्ययः स्यात् / भवान्। भवन्तौ / भवन्तः / उकारो दीर्घत्वादिकार्थः / हृमृरुहियुषितडिभ्य इत् // 887 // एभ्य इत प्रत्ययः स्यात् / हंग हरणे। हरित् हरितो वर्णः ककुब वायुः मृगजातिः अश्वः सूर्यश्च / सं गतौ / सरित् नदी। रुहं बीजजन्मनि / रोहित वीरुत्पकारः मत्स्यः सूर्यः अग्निः मृगः वर्णश्च / युषः सौत्रः / योषति गच्छति पुरुषमिति योषित् स्त्री / तडण आघाते। तडित् विद्युत् / ___ उदकाच्छ्वेर्डित् // 888 // उदकपूर्वात् ट्दोश्चि गतिवृद्धयोरित्यस्मात् डिदित् प्रत्यय: स्यात् / उदकेन श्यति उदश्चित् तक्रम् / 'नाम्युत्तरपदस्य च ' इति उदकस्य उदभावः। उत् // 889 // मृत् प्राणत्यागे इत्यस्मादुत् प्रत्ययः स्यात् / मरुत् वायुः