SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ 846 सिद्धहैमबृहत्प्रक्रिया. [ कृदन्ते _ अणे?ऽन्तश्च // 836 // अणेर्धातोणिदूः प्रत्ययः स्याद् डश्चान्तः / अण शब्दे / आण्डूः जलभृङ्गारः। अडो ल च वा // 837 // अड उद्यमे इत्यस्माण्णिदूः प्रत्ययः स्यात् लश्चान्तादेशो वा / आलूः भृङ्गारः करकश्च / आडूः दीं टिटिभः वनस्पतिः जलाधारभूमिः पादभेदनं च। ___ नमो लम्बेर्नलुक् च // 838 // नव्पूर्वात् लबूङ् अवलंसने चेत्यस्मात् णिदूः प्रत्ययो नकारस्य च लुक् स्यात् / अलाबूः तुम्बी। कफादीरेल च // 839 // कफपूर्वादीरिक गतिकम्पनयोरित्यस्मादूः प्रत्ययो लकारश्चान्तादेशः स्यात् / कफेलूः प्लेष्मातकः यवलाजाः मधुपर्कः छादिषेयं च तृणम् / ऋतो रत् च // 840 // ऋत् घृणागतिस्पर्धेषु इत्यस्मादूः प्रत्ययो रत् चास्यादेशः स्यात् / रतूः नदीविशेषः सत्यवाक् दूतः कृमिविशेषश्च / दृभिचपेः स्वरानोऽन्तश्च // 841 // आभ्यां पर ऊः प्रत्ययः स्वरात् परो नोऽन्तश्च स्यात् / दृभैत् ग्रन्थे / इन्भूः सर्पजातिः वनस्पतिः वज्रः ग्रन्थकारः दर्भणं च / बाहुलकात् 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' इति नकारस्य निमित्तवर्गीयान्त्योन। चप सान्वने चम्पू: कथाविशेषः।। धृषेर्दिधिषधिीषौ च // 842 // विधृषाट प्रागल्भ्ये इत्यस्मात् ऊः प्रत्ययो दिधिष् दिधीष् इत्यादेशौ चास्य स्याताम् / दिधिषः ज्यायस्याः पूर्वपरिणीता पुंश्चली च / दिधीपूः ऊढायाः कनिष्ठाया अनूढा ज्येष्ठा पुनर्भूः आहुतिश्च / ___ भ्रमिगमितनिभ्यो डित् // 843 // एभ्यो डिदूः प्रत्ययः स्यात् / भ्रमूच अनवस्थाने / भ्रूः अक्ष्णोरुपरि रोमराजिः / गम्लं गतौ / अग्रे गच्छत्यग्रेगः पुरस्सरः / तनूयी विस्तारे / कुत्सितं तन्यते कुतूः चर्ममयमावपनम् / नृतिशूधिरुषिकुहिभ्यः कित् // 844 // एभ्यः किदूः प्रत्ययः स्यात् / नृतैच नर्तने / नृतुः नर्तकः कृमिजातिः प्लवः प्रतिकृतिश्च / शृधूङ् शब्दकुत्सायाम् / शधः शर्धनः कृमिजातिः अपानं बलिश्च दानवः। रुपंच रोषे / रुषः भर्त्सकः / कुहणि विस्मापने / कुहूः अमावास्या / तृखण्डिभ्यां डूः // 845 / / आभ्यां डूः प्रत्यय: स्यात् / तृ प्लवनतरणयोः / तईः द्रोणी प्लवः परिवेषणभाण्डं च / खडण भेदे / खड्डूः बालानामुपकरणं स्त्रीणां पादाङ्गुष्ठाभरणं च /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy