________________ घणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 845 ___ मस्जीष्यशिभ्यः सुक् // 826 // एभ्यः कित् मुः प्रत्ययः स्यात् / दुमस्नोंत् शुद्धौ / ' मस्जेः सः' इति नोऽन्तः / मछुः मुनिः। इषश् आभीक्ष्ण्ये / इक्षुः गुडादिप्रकृतिः / अशौटि व्याप्तौ / अक्षुः समुद्रः वपश्च / / तृपलिमलेरक्षुः // 827 // एभ्योऽक्षुः प्रत्ययः स्यात् / तृ प्लवनतरणयोः / तरक्षुः श्वापदविशेषः / प० गतौ, मलि धारणे / पलक्षुः मलक्षुश्च वृक्षः / ____ उलेः कित् // 828 // उल दाहे इत्यस्मात् सौत्राद् किदक्षुः प्रत्ययः स्यात् / उलक्षुः तृणजातिः / कृषिचमितनिधन्यन्दिसर्जिर्जिर्जिलस्जीयिभ्य ऊः // 829 // एभ्य ऊः प्रत्यय: स्यात् / कृषीत् विलेखने / कर्षः कुल्या अङ्गारः परिखा गर्तश्च / चमू अदने। चमूः सेना। तनूयी विस्तारे। तनूः शरीरम् / धन शब्दे, धन धान्ये सौत्रो वा / धनूः धान्यराशिः ज्या वरारोहा च स्त्री / अदु बन्धने / अन्दूः पादकटकः / सर्ज अर्जने / सर्जः अर्थः क्षारः वनस्पतिः वणिक च / खजे मार्जने च / खर्ज़ः कण्डूः विद्युच्च / भृजै भर्जने, भ्रस्जीत् पाके वा / भर्जः यवविकारः। ओलस्जैति वीडे / लज्जूः लज्जालुः / ईष्र्ण्य ईर्ष्यार्थः / ईयः ईर्ष्यालुः / फलेः फेल् च // 830 // फल निष्पत्तावित्यस्मादः प्रत्ययोऽस्य च फेल् इत्यादेशः स्यात् / फेलूः होमविशेषः / कषेण्डच्छौ च षः॥८३१॥ कष हिंसायामित्यस्मादः प्रत्ययः स्यात् षकारस्य च ण्ड् च्छश्चादेशः स्यात् / कण्डूः कच्छूश्च पामा / वहेई च / / 832 // वहीं प्रापणे इत्यस्मादः प्रत्ययो धश्चान्तादेशः स्यात् / वधूः पतिमुपपन्ना कन्या जाया च / मृजेर्गुणश्च // 833 // मृजौक् शुद्धावित्यस्मादः प्रत्ययो गुणश्चास्य / मर्ज: शुद्धिः रजकः नद्यास्तीरं शिला च / गुणे सिद्धे गुणवचनमकारस्य वृद्धिबाधनार्थम् / ___ अजेोऽन्तश्च // 834 // अज क्षेपणे चेत्यस्मादूः प्रत्ययो जकारश्चान्तः स्यात् / अज्जूः जननी। ____कसिपद्यादिभ्यो णित् // 836 // एभ्यो णिदूः प्रत्ययः स्यात् / कस गतौ / कामूः शक्तिर्नामायुधम् वाग्विकल; बुद्धिः व्याधिः विकला च वाक् / पदिच् गतौ / पादूः पादुका / ऋक् गतौ। आरूः वृक्षविशेषः कच्छुः गतिः पिङ्गलश्च / आदिग्रहणात् कचतेः काचूः, शलतेः शालू, इत्यादयोऽपि /