________________ 844 सिद्धहैमबृहत्पक्रिया. - [कृदन्ते आदेश्वोकारैकारौ स्याताम् / ऊर्वत्यार्तिमिति ऊर्वारुः कटुचिर्भटी / एरिः चारुचिर्भटी। कृपिक्षुधिपीकुणिभ्यः कित् // 815|| एभ्यः किदारुः प्रत्ययः स्यात् / कृपौङ् सामर्थ्ये / कृपारुः दयाशीलः / क्षुधंच् बुभुक्षायाम् / क्षुधारुः क्षुधमसहमानः। लत्वे कृपालुः क्षुधालः / पीच पाने / पियारुः वृक्षः / कुणत् शब्दोपकरणयोः / कुणारुः वनस्पतिः। श्यः शीत च // 816 // श्यैङ् गतावित्यस्मादारुः प्रत्ययोऽस्य च शीत इत्यादेशः स्यात् / शीतारुः शीतासहः / लत्वे शीतालुः / तुम्बेरुरुः // 817 // तुबु अर्दने इत्यस्मादुरुः प्रत्ययः स्यात् / तुम्बुरुः गन्धर्वः गन्धद्रव्यं च / / कन्देः कुन्दु च // 818 // कदु रोदनाहानयोरित्यस्मादुरुः प्रत्ययोऽस्य च कुन्द् इत्यादेशः स्यात् / कुन्दुरुः सल्लकीनिर्यासः / चमेरूरुः // 819 // चमू अदने इत्यस्मादूरुः प्रत्ययः स्यात् / चमूरुः चित्रकः। शीङो लुः // 820 // शीङ् स्वप्ने इत्यस्माल्लुः प्रत्ययः स्यात् / शेलुः श्लेष्मातकः। पीङः कित् // 821 // पीच् पाने इत्यस्मात् कित् नुः प्रत्यय: स्यात् / पीलः हस्ती वृक्षश्च / लस्जीयिशलेरालुः // 822 // एभ्य आलुः प्रत्ययः स्यात् / ओलस्नैति वीडे / लज्जालुः लज्जनशीलः। ईष्र्ण्य ईर्ष्यार्थः। ईर्ष्यालुः ईर्ष्याशीलः / शल गतौ / शलालुः वृक्षावयवः। आपोऽप् च // 823 // आप्लंट व्याप्तावित्यस्मादालुः प्रत्ययोऽस्य चाप् इत्यादेशः स्यात् / अपालुः वायुः। गृहलुगुग्गुलुकमण्डलवः // 824 / / एते आलुप्रत्ययान्ता निपात्यन्ते / गृहतेईस्वश्च प्रत्ययादेः। गृहलुः ऋषिः / गुंङ् शब्दे / अस्यादिगुग् लोपश्च प्रत्ययादेः। गुग्गुलुः वृक्षविशेषः अश्वश्च / कम्पूर्वादनितेर्टोऽन्तः इस्वश्च प्रत्ययादेः। कमण्डलुः अमत्रम् / प्रःशुः॥८२५॥ पृश् पालनपूरणयोरित्यस्मात् शुः प्रत्ययः स्यात् / पर्युः वसिंहं वक्रास्थि /