SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 847 तृदृभ्यां दूः // 846 // आभ्यां दूः प्रत्ययः स्यात् / तृ प्लवनतरणयोः / तर्दूः दीं। दृश विदारणे। दर्दूः कुष्ठभेदः / ___ कमिजनिभ्यां बूः // 847 // आभ्यां बूः प्रत्ययः स्यात् / कमूङ् कान्तौ / कम्बूः भूषणम् आदर्शत्सरुः कुरुविन्दश्च / जनैचि प्रादुर्भावे / जम्बूः वृक्षविशेषः। शकेरन्धूः // 848 // शक्लंट शक्तावित्यस्मादन्धुः प्रत्ययः स्यात् / शकन्धूः वनस्पतिः देवताविशेषश्च / कृगः कादिः // 849 // डुकुंग करणे इत्यस्मात् ककारादिरन्धूः प्रत्ययः स्यात् / कर्कन्धूः बदरी व्रणं यवलाजाः मधुपर्कः विष्टम्भश्च / योरागूः // 850 // युक् मिश्रणे इत्यस्मादागूः प्रत्ययः स्यात् / यवागूः द्रवौदनः। काच्छीडो डेरूः ॥८५१॥कपूर्वात् शीक् स्वप्ने इत्यस्मात् डिदेरुः प्रत्ययः स्यात् / कशेरुः कन्दविशेषः वीरुच्च / दिव ऋः // 852 // दिवूच् क्रीडादावित्यस्माद् ऋः प्रत्ययः स्यात् / देवा देवरः पितृव्यस्त्री अग्निश्च / सोरसेः // 853 // सुपूर्वादसू च् क्षेपणे इत्यस्माद् ऋः प्रत्ययः स्यात् / खसा भगिनी। नियो डित् // 854 / / णींग प्रापणे इत्यस्मात् डिद् ऋः प्रत्ययः स्यात् / ना पुरुषः / सव्यात् स्थः // 855 // सव्यपूर्वात् ष्ठां गतिनिटत्तावित्यस्माद् डिद् ऋ प्रत्ययः स्यात् / सव्येष्ठा सारथिः। यतिननान्दभ्यां दीर्घश्च // 856 // यतेनअपूर्वात् नन्देश्च ऋः प्रत्ययः स्यात दीर्घश्वानयोर्भवति। यतैङ् प्रयत्ने। याता पतिभ्रातृभगिनी देवरभार्या ज्येष्ठभार्या च। टुनदु समृद्धौ / ननान्दा भर्तृभगिनी / नखादिवान्नंबोऽन्न भवति / शासिशंसिनीरुक्षुहृभृधृमन्यादिभ्यस्तः // 857 // एभ्यस्तः प्रत्ययः स्यात् / शासक् अनुशिष्टौ / शास्ता गुरुः राजा च / प्रशास्ता राजा ऋविक् च / शंसू स्तुतौ च / शंस्त। स्तोता / णींग प्रापणे। नेता सारथिः / रुक् शब्दे / रोता मेघः / टुक्षुक शब्दे / क्षोता मुसलम् / हंग हरणे / हर्ता चौरः / टुडु,ग्क् पोषणे च / भर्ता पतिः। धृत् अवध्वंसने / धर्ता धर्मः / मनिंच ज्ञाने / मन्ता विद्वान् प्रजापतिश्च / आदिग्रहणादुपद्रष्टा ऋषिक् विशस्ता घातकः इत्यादयोऽपि /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy