________________ 842 सिद्धहैमबृहत्मक्रिया. [कृदन्ते जीवे रदानुक // 795 // जीव प्राणधारणे इत्यस्मात् कित् रदानुः प्रत्ययः स्यात् / जीरदानुः / कित्करणं गुणप्रतिषेधार्थम् / वलोपे हि नाम्यन्तखात् गुणः स्यात् / ___ वचेरक्नुः // 796 / / वचं भाषणे इत्यस्मादक्नुः प्रत्ययः स्यात् / वचक्नुः वाग्मी आचार्यः ब्राह्मणः ऋषिश्च / ___हृषिपुषिघुषिगदिमदिनन्दिगाण्डमण्डिजनिस्तनिभ्यो रित्नुः॥ // 797 / एभ्यो ण्यन्तेभ्यो इत्नुः प्रत्ययः स्यात् / हृषच तुष्टौ, हृषू अलीके वा। हर्षयित्नुः आनन्दः स्वजनः रङ्गोपजीवी प्रियंवदश्च / पुषच पुष्टौ / पोषयित्नुः भर्ता मेघः कोकिलश्च / घुषण विशब्दने / घोषयित्नुः कोकिलः शब्दश्च / गदण गर्ने / गदयित्नुः पर्जन्यः वावदूकः भ्रमरः कामश्च / मदैच हर्षे / मदयित्नुः मदिरा सुवर्णम् अलंकारश्च / टुनदु समृद्धौ / नन्दयित्नुः पुत्रः आनन्दः प्रमुदितश्च / गड सेचने / गडयित्नुः बलाहकः। मडु भूषायाम् / मण्डयित्नुः मण्डयिता कामुकश्च / जनैचि प्रादुर्भावे / जनयित्नुः पिता। स्तनण गर्ने। स्तनयित्नुः मेघः मेघगर्जितं च / ___ कस्यर्तिभ्यामिपुक् // 798 // आभ्यां किदिपुः प्रत्ययः स्यात् / कस गतौ। कसिपुः असनम् / ऋक् गतौ / रिपुः शत्रुः। ___कम्यमिभ्यां बुः // 799 // आभ्यां बुः प्रत्ययः स्यात् / कमूङ् कान्तौ / कम्बुः शङ्खः। अम गतौ / अम्बु पानीयम् / __ अघ्रमुः // 800 // अभ्र गतावित्यस्मादमुः प्रत्ययः स्यात् / अभ्रमः देवहस्तिनी / यजिशुन्धिदहिदसिजनिमनिभ्यो युः॥८०१॥ एभ्यो युः प्रत्ययः स्यात् / यजी देवपूजादौ / यज्युः अग्निः अध्वर्युः यज्वा शिष्यश्च / शुन्ध शुद्धौ / शुन्ध्युः अग्निः आदित्यः पवित्रं च / दहं भस्मीकरणे। दह्युः अग्निः। दमूच उपक्षये / दस्युः चौरः / जनैचि प्रादुर्भावे / जन्युः अपत्यं पिता वायुः प्रादुर्भावः प्रजापतिः प्राणी च / मनिच ज्ञाने च / मन्युः कृपा क्रोधः शोकः क्रतुश्च / / __ भुजेः कित् // 802 // भुजंप पालनाभ्यवहारयोः इत्यस्मात् कित् युः प्रत्ययः स्यात् / भुज्युः अग्निः आदित्यः गरुडः भोगः ऋषिश्च / सर्तेरय्वन्यू // 803 // तूं गतावित्यस्मात् अयु अन्यु इति प्रत्ययौ स्याताम् / सरयुः नदी वायुश्च / दीर्घान्तमिममिच्छन्त्येके / सरयूः / श्लिष्टनिर्देशात् तदपि संगृहीतम् / सरण्युः मेघः अश्विनोर्माता समेघो वायुश्च /