________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 839 तनिमनिकणिभ्योडुः // 765 // एभ्यो डुः प्रत्ययः स्यात् / तनूयी विस्तारे। तण्डुः प्रथमः / मनिंच ज्ञाने / मण्डुः ऋषिः। कण शब्दे / कण्डुः वेदनाविशेषः। __पनेर्दीर्घश्च / / 766 // पनि स्तुतावित्यस्मात् डुः प्रत्ययो दीर्घश्च स्यात् / पाण्डुः वर्णः क्षत्रियश्च / ___ पलिमृभ्यामाण्डकण्डुकौ // 767 // आभ्यां यथासंख्यमाण्डुः कण्डुक् च प्रत्ययौ स्याताम् / पल गतौ / पलाण्डुः लशुनभेदः। भृत् माणत्यागे। मृकण्डुः ऋषिः। ___ अजिस्थारीभ्यो णुः // 768 // एभ्यो णुः प्रत्ययः स्यात् / अज क्षेपणे च / वेणुः वंशः / ष्ठां गतिनिवृत्तौ / स्थाणुः शिवः ऊध्ये च दारु / वृग्ट वरणे / वर्णः नदः जनपदश्च / रीश् गतिरेषणयोः। रेणुः धूलिः / विषेः कित् // 769 // विष्टंकी व्याप्तावित्यस्मात् कित् णुः प्रत्ययः स्यात् / विष्णुः हरिः। _ क्षिपेरणुक् // 770 // क्षिपीत् प्रेरणे इत्यस्मात् किदणुः प्रत्यय: स्यात् / क्षिपणुः समीरणः विद्युच्च / अओरिष्णुः // 771 // अञ्जौए व्यक्त्यादावित्यस्मादिष्णुः प्रत्ययः स्यात् / अञ्जिष्णुः घृतम् / ___ कृहृभूजीविगम्यादिभ्य एणुः // 772 // एभ्य एणुः प्रत्ययः स्यात् / इंग्ट हिंसायाम् / डुकंग करणे वा / करेणुः हस्ती / हंग् हरणे। हरेणुः गन्धद्रव्यम् / भू सत्तायाम् / भवेणुः भव्यः / जीव प्राणधारणे / जीवेणुः औषधम् / गम्लं गतौ / गमेणुः गन्ता / आदिग्रहणात् शमूच उपशमे, शमेणुः उपशमनम्। यजी देवपूजादौ / यजेणुः यज्ञादिः। डुपची पाके / पचेणुः पाकस्थानम् / पदेणुः वहेणुरित्यादि / ___ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहनिहायाहिशिपूभ्यस्तुन् // 773 // एभ्यस्तुन् प्रत्ययः स्यात् / डुकृग् करणे। कर्तुः कर्मकरः। पिंग्ट् बन्धने / सेतुः नदीसंक्रमः। कमूङ् कान्तौ। कन्तुः कन्दर्पः कामी मनः कुमूलश्च / अम गतौ / अन्तुः रक्षिता लक्षणं च / गम्लं गतौ / गन्तुः पथिकः आगन्तुः अवास्तव्यो जनः / तन्यी विस्तारे / तन्तुः मूत्रम् / मनिच् ज्ञाने / मन्तुः वैमनस्यं प्रियंवदः मानश्च / जनैचि प्रादुर्भावे / जन्तुः प्राणी / अस्क् भुवि / अस्तुः अस्तिभावः / बाहुलकात् भूभावाभावः / मसैच परिणामे / मस्तु दधिमूलवारि / पचि सेचने। सक्तुः यवविकारः। अव रक्षणादौ / ओतुः बिडालः /