________________ 838 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते सौत्रः / कुठाकुः श्वभ्रम् / कुंङ् शब्दे / कुवाकुः पक्षी / कुषश् निष्कर्षे / कुषाकुः मूषिकः अग्निः परोपतापी च / कृषीत् विलेखने / कृषाकुः कृषीवलः / उपसर्गाच्चेर्डित् // 754 // उपसर्गपूर्वात् चिंग्ट् चयन इत्यस्मात् डिदाकुः प्रत्ययः स्यात् / उपचाकुः संचाकुश्च ऋषिः। निचाकुः निपुणः ऋषिश्च / / शलेरकुः // 755 // शल गतावित्यस्मात् अकुः प्रत्ययः स्यात् / शलकुः ऋषिः। स्पृभ्यां दाकुक् // 756 // आभ्यां कित् दाकुः प्रत्यय: स्यात् / मृदाकु: दवाग्निः वायुः आदित्यः व्याघ्रः शकुनिः अस्तः भर्ता गोत्रकृच्च / पृक् पालनपूरणयोः / पृदाकुः सपः गोत्रकृच्च / __ इषेः स्वाकुक् च // 757 / इषत् इच्छायामित्यस्मात् कित् स्वाकु; प्रत्ययः स्यात् / इक्ष्वाकुः आदिक्षत्रियः / फलिवल्यमेणुः // 758 // एभ्यो गुः प्रत्ययः स्यात् / फल निष्पत्तौ / फल्गु असारम् / वलि संवरणे / वल्गु मधुरं शोभनं च / वल्गुः पक्षी / अम गतौ / अङ्गुः शरीरावयवः / दमेर्लुक् च // 759 // दमूच उपशमे इत्यस्माद् गुः प्रत्ययोऽन्त्यस्य च लुक् स्यात् / दगुः ऋषिः। हेर्हिन् च // 760 / / हिंट गतिद्धयोरित्यस्माद् गुः प्रत्ययो हिन् चास्यादेशः स्यात् / हिङ्गुः रामठ;। प्रीकैपैनीलेरङ्गुक् // 761 // एभ्यः किदछुः प्रत्ययः स्यात् / पींग्श वृप्तिकान्त्योः। प्रियङ्गुः फलिनी रालकश्च / के शब्दे / कङ्गुः अणुः / पैं शोषणे / पङ्गुः खञ्जः / गील वर्णे / नीलगुः कृमिजातिः शृगालश्च / अव्यार्तगृभ्योऽटुः // 762 // एभ्योऽटुः प्रत्ययः स्यात् / अव रक्षणादौ / अवटुः कृकाटिका / ऋक् गतौ / अरटुः वृक्षः / गृत् निगरणे / गरटुः देशविशेषः पक्षी अजगरश्च / __ शलेराटुः // 763 // शल गतावित्यस्मादाटुः प्रत्ययः स्यात् / शलाटुः कोमलं फलम् / अज्यवेरिष्ठुः ॥७६४॥आभ्यामिष्ठुः प्रत्ययः स्यात् / अनौप व्यक्त्यादौ। अञ्जिष्ठुः भानुः अग्निश्च / अव रक्षणादौ / अविष्ठुः अश्वः होता च /