________________ 72 सिद्धहैमबृहत्पक्रिया. [व्यंजनान्तपुंल्लिङ्ग मघवानौ / स्वर इति किम् / श्वभ्याम् / नकारान्तनिर्देशादिह न भवति / गोष्ठश्वेन / अर्थवद्ग्रहणा दिह न भवति / तत्त्वदृश्वना / मघवच्छब्दस्तु मत्वन्तः / मघवान् / मघवन्तौ / मघवन्तः। मघवन्तम् / मघवन्तौ। मघवतः / मघवता। मघवद्भ्यामित्यादि / अर्वा / अर्वाणौ / अर्वाणः / अर्वाणम् / अर्वणः / अर्वणा। अर्वभ्यामित्यादि। 343 पथिन्मथिनृभुक्षः सौ // 1 / 476 // पथिन् मथिन् ऋभुतिन् इत्येतेषां नकारान्तानामन्तस्य सौ परे आकारः स्यात् / इति नस्यात्वे / - 344 एः // 11477 / पथ्यादीनां नान्तानामिकारस्य घुटि परे आः स्यात् / पथा इति जाते। 345 थोन्थ् // 1 / 4 / 78 // मथिन् मथिन् इत्येतयोर्नान्तयोस्थस्य घुटि परे न्यू इत्यादेशः स्यात् / पन्थाः / पन्थानौ / पन्थानः / हे पन्थाः। 346 इन्डीस्वरे लुक् // 1 / 4 / 79 // पथ्यादीनां नान्तानां डीप्रत्यये अघुट्स्वरादौ च स्यादौ परे इन अवयवो लुक् स्यात् / अभेदनिर्देशः सर्वादेशार्थः / पथः / पथा / पथिभ्याम् / एवं मन्थाः / ऋभुक्षाः। कथं हे सुपथिन् हे सुपथि कुल, हे सुमथिन् हे सुमथि कुल / अत्र नित्यत्वान्नपुंसकलक्षाणायाः सेलपि सेरभावानात्वम् / नकारान्तनिर्देशादिहापि नाकारः-पन्थानमिच्छति क्यनि नलोपे किपि च पथीः, मथीः, ऋभुक्षीः / सुपन्थानि, बहुमन्थानीत्यादौ च ‘पूजास्वतेः पाक टात् / इति समासान्तप्रतिषेधः। पञ्चनप्रभृतयो बहुवचनान्ता नान्ताः संख्याशब्दास्त्रिष्वपि लिङ्गेषु सरूपाः / इतिष्ण इति जश्शसोलपि पञ्च 2 / पञ्चभिः पञ्चभ्यः 2 / 347 संख्यानां र्णाम् // 1 // 4 // 33 // रेफषकारनकारान्तानां संख्यावाचिनां संबंधिन आमः स्थाने नाम् स्यात् / दीर्घो नाम्यतिनिति दीर्घे, नाम्नो नोऽनह्न इति नलोपे पश्चानाम् / पञ्चसु / तत्संबंधविज्ञानादिह न लुब् न च नाम् / मियपञ्चा। मियपश्चाना। प्रियपश्चानः / प्रियपश्चज्ञामित्यादि राजवत् / संख्यानामिति किम् / यतिनाम् / र्णामिति किम् / त्रिंशताम् / पञ्चाशताम् / एवं सप्तनप्रभृतयः / 348 वाष्टन आः स्यादौ // 1 / 4 / 52 // अष्टन्शब्दस्य तत्संबंधिन्यन्यसंबंधिनि वा स्यादौ परे आकारान्तादेशो वा स्यात् /