SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ می प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. वकारलोपे दिवन् / दीना / दीने / नामिनो भ्वादिसंबंधिशेषणं किम् / दधिव्रज्या। प्रत्यासत्या तस्यैवेति विशेषणं किम् / ग्रामणित्रज्या / 338 न वमन्तसंयोगात् // 2 / 1 / 111 // वकारान्तान्मकारान्ताच संयोगात परस्यानोऽकारस्य लुग न स्यात् / यज्वनः / यज्वभ्यामित्यादि / आत्मा। आत्मानौ / आत्मानः / आत्मनः / आत्मनेत्यादि / संयोगादिति किम् / प्रतिदीना / साना / वमन्तेति किम् / तक्ष्णा / मा। 339 इन्हन्पूषार्यम्णः शिस्योः // 1 / 4 / 87 // इनन्तस्य हनादीनां च संबंधिनः स्वरस्य शौ शेषे सौ च परे दीर्घः स्यात् / नि दीर्घ इत्येव सिद्धे नियमाथै वचनम् / एषां शिस्योरेव यथा स्यान्नान्यत्रेति / दण्डी। दण्डिनौ / दण्डिनः। दण्डिना / दण्डिभ्याम् / शेष इत्येव / हे दण्डिन् / अर्थवद्ग्रहणे नानर्थकस्ये तिप्लीहानौ, प्लीहानः, प्लीहानमित्यत्र नियमो न भवति / वाग्मिनौ, वाग्मिन इत्यादौ तु 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्तीति' न्यायाद भवत्येव / एवमेव विन्प्रत्ययान्तानामपि / वचस्वी / वचस्विनौ / वचस्विन इत्यादि। वृत्रहा / कवर्गकस्वरवतीति णत्वम् / वृत्रहणौ / वृत्रहणः / वृत्रहणम् / वृत्रहणौ / शसादौ स्वरेऽस्यलोपे कृते 340 हनो हो नः // 2 / 3 / 212 // हन्तेह्र इत्येवंरूपस्य न इत्ययमादेशः स्यात् / कवर्गकस्वरवतीति णत्वे प्राप्ते / 341 हनो घि // 2 / 3 / 94 // हन्तेर्नकारस्य घकारे निमित्तनिमित्तिनोरन्तरे सति णो न स्यात् / वृत्रन्नः / वृत्रना / वृत्रहभ्याम् / वृत्रहभिरित्यादौ 'असिद्धं बहिरङ्गमन्तरङ्गे ' इति नलोपस्यासिद्धवात इस्वस्य तः पित्कृती'ति तोऽन्तो न भवति / त्रनि / वृत्रहणि / हे वृत्रहन् / पूषा / पूषणौ। पूष्णः / पूष्णा / पूषभ्याम् / पूष्णि / पूषणि / हे पूषन् / एवमर्यमन्शब्दः / श्वा / श्वानौ / वानः / श्वानम् / 342 श्वन्युवन्मघोनो ङीस्याद्यघुट्स्वरे व उः // 2 / 1 / 106 // श्वन् युवन् मघवनित्येतेषां सस्वरो वकारो ङीस्यायघुट्स्वरे परे उः स्यात् / शुनः / शुना / श्वभ्याम् / युवा / युवानौ / युवानः / युवानम् / यूनः / यूना। युवभ्याम् / मघवा / मघवानौ / मघवानः / मघोनः। मघोनेत्यादि / डीस्याद्यघुटस्वर इति किम् / शौवनम् / यौवनम् / माघवनम् / अघुटिति किम् / श्वानौ / युवानौ /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy