________________ सिद्धहैमबृहत्पक्रिया. [व्यंजनान्तपुंल्लिङ्ग ग्रहणम् / व्याघ्रपादमिच्छति स इवाचरतीति च व्याघ्रपाद्यति / व्याघ्रपाद्यते / द्विपादौ / नाम्न इत्येव / उपपद्यते एवंशीलः उपपादुकः / पादयतेः किवन्तस्य प्रयोगो नास्तीति कश्चित् / धकारान्तो धर्मबुध् शब्दः / 335 गडवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये // 2 / 177 // गडदवादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपावयवस्यादेश्चतुर्थ आसन्नः स्यात् पदान्ते सकारादौ ध्वशब्दादौ च प्रत्यये परे / धर्मभुत्-द् / धर्मबुधौ / धर्मबुधः / धर्मबुधम् / धर्मबुधौ। धर्मबुधः / धर्मबुधा / धर्मभुद्भ्याम् / धर्मभुत्सु / .हे धर्मभुत्-द् / नकारान्तो राजन् शब्दः / 'निदीर्घ ' इति दीर्घ / राजा / राजानौ / राजानः / राजानम् / राजानौ। अघुट्स्वरेऽनोऽस्येत्यल्लोपे असद्विधौ स्वरादेशस्य लोपस्य स्थानिवद्भावप्रतिषेधाच नस्य बत्वे जबोहः / राज्ञः / राज्ञा / राजभ्याम् / असदधिकारविहितस्य नलोपस्यासत्वादीर्घाघभावः। राज्ञे / राज्ञः राज्ञोः / राज्ञाम् / राज्ञि / राजनि / राजसु / 336 नामन्ये // 2 // 19 // आमन्येऽर्थे वर्तमानस्य नाम्नः संबंधिनो नकारस्य लुग न स्यात् / हे राजन् / एतदेव प्रतिषेधवचनं ज्ञापक सिलुकः स्थानिवद्भावेन 'अधातुविभक्ति' इति नामसंज्ञाप्रतिषेधो न भवतीति / हे राजवृन्दारक इत्यत्र समुदायार्थ आमन्यो नावयवार्थ इति नलोपप्रतिषेधो न भवति / अवयवार्थस्य त्वामन्त्र्यत्वे असामर्थ्यात् समास एव न स्यात् / प्रतिदीव्यतीति . प्रतिदिवा / प्रतिदिवानौ / प्रतिदिवानः / प्रतिदिवानम् / प्रतिदिवानौ / शसादौ स्वरे अनोऽस्येत्यल्लोपे कृते / 337 भ्वादेर्नामिनो दी? वोwञ्जने // 2063 // भ्वादेर्धातोरवयवभूतौ यौ रेफवकारौ तयोः परयोस्तस्यैव भादेन मिनो दीर्घः स्यात् ताभ्यां परं चेद् व्यंजनं न भवति / अत्राप्यनेन दीर्घ कर्तव्ये स्वरादेशस्य लोपस्य न स्थानिवत्त्वम् , असद्विधौ तनिषेधात् / प्रतिदीनः / प्रतिदीनेत्यादि / यज्वा / यज्वानौ / वज्वानः / यज्वानम् / यज्वानौ / भ्वादेरिति किम् / चतुर्भिः। दिव्यति / नामिन इति किम् / स्मर्यते। भव्यम् / वोरिति किम् / बुध्यते / व्यंजन इति किम् / विकिरति / भिंदिसंबंधिविशेषणं किम् / दीव्यतेः कनिपि 1 ननु हे राजन इत्यादौ सिलुकः स्थानिवद्भावेन 'अधातुविभक्ति' इत्यनेन नामत्वाभावे नलोपस्य प्राप्तिरेव नेति किं प्रतिषेधेनेत्याह-पतदेवेति /