________________ 73 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 349 अष्ट और्जस्शसोः // 11453 // अष्ट इति कृतात्वस्याष्टन्शब्दस्य निर्देशः / अष्टाशब्दसंबंधिनोर्जस्शसोः स्थाने औकारादेशः स्यात् / अष्टौ 2 / अष्ट 2 / अष्टाभिः / अष्टभिः / अष्टाभ्यः 2 / अष्टभ्यः 2 / संख्यानां ामित्यत्र बहुवचनस्य व्याप्त्यर्थवाद् भूतपूर्वनान्ताया अपि नाम् / अष्टानाम् / अष्टासु / अष्टसु / प्रियाष्टन् शब्दस्य वाष्टन इत्यनेन वैकल्पिकमात्वं भवत्येव, जस्शसोः औत्वं तु तत्संबंधिविज्ञानान्न भवति / प्रियाष्टाः / प्रियाष्टा / प्रियाष्टौ / प्रियाष्टानौ। प्रियाष्टाः / मियाष्टानः / प्रियाष्टाम् / प्रियाष्टानम् / प्रियाष्टै।। प्रियाष्टानौ / प्रियाष्टः। पियाष्ट्रनः / प्रियाष्टाभिः। प्रियाष्टभिः / हे प्रियाष्टन् / हे प्रियाष्टाः / अन्यसंबंधिनोर्जस्शसोरात्वं नेच्छन्त्येके / तन्मते प्रियाष्टानस्तिष्ठन्ति, प्रियाष्टनः पश्येत्येव भवति / केचित्तु सकारभकारादावेव स्यादावात्वमिच्छन्ति / अतत्संबंधिनोरपि जस्शसोरौखमिच्छन्त्येके-प्रियाष्टौ तिष्ठन्ति, प्रियाष्टौ पश्य / केचित्तु अष्टावाचक्षत इति णिचि किपि अष्टौ तिष्ठन्ति, अष्टौ पश्येतीच्छन्ति / तदप्यष्ट इति तन्त्रण संगृहीतम् / पकारान्तः स्वपशब्दः। 350 अपः॥ 1 / 4 / 88 // अपः स्वरस्य शेषे घुटि दीर्घः स्यात् / शोभना आपो यत्र स्वाप-ब् / स्वापौ / स्वापः / स्वापम् / स्वापौ / स्वपः / स्वपा। 351 अपोऽङ्गे // 2 // 1 // 4 // अप इत्येतस्य स्वसंबंधिन्यन्यसंबंधिनि वा भकारादौ स्यादौ परतोऽद इत्ययमादेशः स्यात् / स्वद्भ्याम् / स्वदभिः / स्वद्भ्यः 2 / स्वपाम् / स्वप्सु / हे स्वप् / भकारान्तस्तुण्डिम् शब्दः। तुण्डिभमाचष्टे णौ किपि तुण्डिप-ब् / तुण्डिभौ / तुण्डिभः / तुण्डिभम् / तुण्डिभः / तुण्डिभा। तुण्ढिबभ्यामित्यादि / एवं गर्दभमाचष्टे णौ किपि गर्धप्–ब् / गर्धब्भ्यामित्यादि / मकारान्तः प्रशाम् शब्दः। 352 मा नो म्वोश्च // 2 / 1 / 67 // मकारान्तस्य भ्वादेरन्तस्य पदान्ते वर्तमानस्य मकारवकारयोश्च परयोनकारादेशः स्यात् स चासन् परे / प्रशाम्यतीति प्रशान् / प्रशामौ / प्रशामः / प्रशामा / प्रशान्भ्याम् / नवस्यासत्त्वान्नलोपाभावः। प्रशान्सु / हे प्रशान् / एवं प्रतान् / प्रदान् / परिक्लान् / 353 किमः कस्तसादौ च // 2 / 1 / 40 // त्यदादिसंबंधिनि स्यादौ तसादौ च प्रत्यये किम्शदस्य क इत्यकारान्त आदेशः स्यात् / कः / को। के इत्यादि सर्ववत् / अक्सहितस्याप्ययमादेशः। त्यदादिसंबंधिविज्ञानादिह न भवति-अति 10