________________ 836 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते कृग्र ऋत उर् च // 734 // आभ्यां किदुः प्रत्यय ऋकारस्य चोर् स्यात् / कृत विक्षेपे / कुरुः राजर्षिः / कुरवः जनपदः / गृश् शब्दे / गुरुः आचार्यः लघुप्रतिपक्षः पूज्यश्च जनः। पचेरिचातः // 735 // डुपचीं पाके इत्यस्मादुः प्रत्ययोऽकारस्य चेकारः स्यात् / पिचुः निरस्थीकृतः कर्पासः। अर्तेर्च // 736 // कंक गतावित्यस्मादुः प्रत्ययोऽस्य च ऊर् इत्यादेशः स्यात् / ऊरुः शरीराङ्गम् / ___महत्युर्च // 737 // अर्तेर्महत्यभिधेये उः प्रत्ययोऽस्य चोर् इत्यादेशः स्यात् / उरु विस्तीर्णम् / उड् च भे // 738 // अर्तेर्भ नक्षत्रेऽभिधेये उः प्रत्ययो धातोश्च उडादेशः स्यात् / उडु नक्षत्रम् / श्लिषेः क च // 739 // श्लिपंच आलिङ्गने इत्यस्मात् किदुः प्रत्ययः ककारश्चान्तादेशः स्यात् / श्लिकुः मृगास्थि सव्यवसायः राज्यं ज्योतिष सेवकश्च / / रजिलविलिङ्ग लुक् च // 740 // एभ्य उः प्रत्ययो नकारस्य च लुक् स्यात् / रघु लघुङ् गतौ / रघुः राजा। लघु तुच्छं शीघ्रं च। लिगुण चित्रीकरणे। लिगुः ऋषिः सेवकः मूर्खः भूमिविशेषश्च / पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नामावेभ्यो युः / 741 // पी मृग मित्र देव कुमार लोक धर्म विश्व सुम्नाश्मन् अव इत्येतेभ्यः परात् यांक् पापणे इत्यस्मात् किदुः प्रत्ययः स्यात् / पीयुः उलूकः आदित्यः सुवर्ण कालश्च / मृगयुः व्याधः मृगश्च / मित्रयुः ऋषिः मित्रवत्सलश्च / देवयुः धार्मिकः। कुमारयुः राजपुत्रः। लोकयुः वाक्यकुशलः जनः। धर्मयुः धार्मिकः / विश्वयुः वायुः / सुम्नयुः यजमानः। अश्मयुः मूर्खः / अवयुः काव्यम् / पराभ्यां शृखनिभ्यां डित् // 742 // परापूर्वाभ्यां यथासंख्यं शूखनिभ्यां डिदुः प्रत्ययः स्यात् / शृश् हिंसायाम् / परान् शृणाति परशुः कुठारः। खनूग् अवदारणे / आखुः मूपिकः / शुभेः स च वा / / 743 // शुभि दीप्तावित्यस्मात् डिदुः प्रत्ययः स्यात् अस्य च दन्त्यः सो वा / सुः शुश्च पूजायाम् / सुपुरुषः / शुनासीरः / युटुभ्याम् 744 // आभ्यां डिदुः प्रत्ययः स्यात् / छुक् अभिगमे / घुः