SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ 831 उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. क्रोधश्च / अगु गतौ / अङ्गुरिः करशाखा / लत्वे-अङ्गुलिः / पहि मर्षणे / सहरिः पृथ्वी अक्रोधनः अनड्वान् संग्रामः अन्धकारः सूर्यश्च / ___ मुहे कित् // 700 // मुहौच वैचित्त्ये इत्यस्मात् किदुरिः प्रत्ययः स्यात् / मुहरिः सूर्यः अनवाश्च / धूमूभ्यां लिलिणौ // 701 // आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ स्याताम् / धूग्श् कम्पने / धूलिः पांसुः / मूङ् बन्धने / मौलिः मुकुटः / पाव्यञ्जिभ्यामलिः // 702 // आभ्यामलिः प्रत्ययः स्यात् / पट गतौ, ण्यन्तः। पाटलिः वृक्षविशेषः / अञ्जौप व्यक्त्यादौ / अञ्जलिः पाणिपुटः प्रणामहस्तयुग्मं च / मासालिभ्यामोकुलिमली // 703 // आभ्यां यथासंख्यमोकुलिमलीत्येतौ प्रत्ययो स्याताम् / मांक माने। मौकुलिः काकः। शल गतौ, ण्यन्तः। शाल्मलिः वृक्षविशेषः / ___दृपृवृभ्यो विः // 704 // एभ्यो विः प्रत्ययः स्यात् / दृश् विदारणे / दर्विः तईः / पृश् पालनपूरणयोः। पर्विः कङ्कः हिंस्रश्च / वृग्श् वरणे / वर्विः शकटं धात्री काकः श्येनश्च / जृशृस्तृजागृकृनीघृषिभ्यो ङित् // 705 / / एभ्यो डिद्विः प्रत्ययः स्यात् / जृष्च् जरसि / जीविः वायुः पशुः कण्टकः शकरः मद्गुः कायम् गुल्मं शङ्का वृद्धः वृद्धभावश्च / शृश् हिंसायाम् / शीविः हिंस्रः कृमिः न्युङ्कुश्च / स्तृग्श् आच्छादने / स्तीविः गर्विष्ठः अध्वर्युः भगः तनुः रुधिरं भयं तृणजातिः नभः अजश्च / जागृक् निद्राक्षये / जागृविः राजा अग्निः प्रबुद्धश्च / डिवान्न गुणः। डुकंग् करणे / कृविः रुद्रः तन्तुवायः तन्तुवायद्रव्यम् राजा च / यदुपज्ञं कृवय इति पञ्चालानाचक्षते / णींग प्रापणे / नीविः परिधानग्रन्थिः मूलधनं च / घृणु संघर्षे / घृष्विः वराहः वायुः अग्निश्च / छविछिविस्फविस्फिविस्थाविस्थिविदविदीविकिकिविदिदिविदीदिविकिकीदिविकिकिदीविशिव्यटव्यादयः // 706 // एते उिद्विप्रत्ययान्ता निपात्यन्ते / छयतेईस्वश्च। छविः विक् छाया आवरणं च। छिदेलक् च। छिविः फल्गुद्रव्यम् / स्फायते: स्फस्फिभावौ च / स्फविः वृक्षजातिः। स्फिविः वृक्षः उदश्विञ्च / तिष्ठतेः स्थस्थिभावौ च / स्थविः प्रसेवकः तन्तुवायः सीमा अग्निः अजंगमः स्वर्गः कुष्ठी कुष्ठिमांसं फलं च / स्थिविः सीमा / दमेलृक् च / दवि; धर्मशीलः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy