________________ उणादिपकरणम् ] सिद्धहैमबृहत्पक्रिया. 829 अम गतौ / अमनिः अग्निः। धमः सौत्रः। धमनिः मन्या रसवहा च शिरा। अशौटि व्याप्तौ / अशनिः इन्द्रायुधम् / अट गतौ / अटनिः चापकोटिः। कटे वर्षावरणयोः। कटनिः शैलमेखला / अव रक्षणादौ / अवनिः भूः। ___ रजेः कित् // 681 // रञ्जी रागे इत्यस्मात् किदनिः प्रत्ययः स्यात् / रजनिः रात्रिः। अर्तेरनिः // 682 // ऋक् गतावित्यस्मादत्निः प्रत्ययः स्यात् / अरनिः बाहुमध्यं शमः उत्कनिष्ठश्च हस्तः / एधेरिनिः // 683 // एधि वृद्धावित्यस्मादिनिः प्रत्ययः स्यात् / एधिनिः मेदिनी। शकेरुनिः॥६८४॥ शक्लंट शक्तावित्यस्मादुनिः प्रत्ययः स्यात् / शकुनिः पक्षी। अदेर्मनिः॥६८५।। अदंक भक्षणे इत्यस्मान्मनिः प्रत्ययः स्यात् / अग्रनिः पशूनां भक्षणद्रोणी अग्निः जयः हस्ती अश्वः तालु च / ___ दमेदुभिर्दुम् च // 686 / / दमूच् उपशमे इत्यस्मात् दुभिः प्रत्ययोऽस्य च दुमित्यादेशः स्यात् / दुन्दुमिः देवतूर्यम् / नीसाव्युशवलिदलिभ्यो मिः // 687 // एभ्यो मिः प्रत्ययः स्यात् / णींग प्रापणे। नेमिः चक्रधारा। षोंच अन्तकर्मणि / सामि अर्धवाच्यव्ययम् / दृग्ट वरणे / वमिः वल्मीककृमिः / युक् मिश्रणे / योमिः शकुनिः / शृश् हिंसायाम् / शर्मिः मृगः / वलि संवरणे / वल्मिः इन्द्रः समुद्रश्च / दल विशरणे। दल्मिः आयुधम् इन्द्रः समुद्रः शक्रः विषं च / ____अशोरश्चादिः // 688 // अशौटि व्याप्तावित्यस्मान्मिः प्रत्ययो रेफश्च धातो. रादिः स्यात् / रश्मिः प्रग्रहः मयूखश्च / __स्रर्तेरूच्चातः॥६८९॥ आभ्यां मिः प्रत्ययो गुणे च कृतेऽकारस्योकारः स्यात् / सं गतौ / सूमिः स्थूणा / ऋक् गतौ / ऊर्मिः तरङ्गः / ___ कृभूभ्यां कित् // 690 // आभ्यां किन्मिः प्रत्ययः स्यात् / डुकंग करणे। कृमिः क्षुद्रजन्तुजातिः। भू सत्तायाम् / भूमिः वसुधा / कणेर्डयिः // 691 // कण शब्दे इत्यस्मात् डिदयिः प्रत्ययः स्यात् / कयिः पक्षिविशेषः / तङ्किवळ्यङ्गिमङ्क्यंहिशद्यदिसद्याशौवपिवशिभ्यो रिः // 692 //