________________ 828 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते दिषु / वीथिः मार्गः। पनं सङ्गे। सक्थि ऊरुः शकटाङ्गं च। असूच क्षेपणे / अस्थि पञ्चमो धातुः। ___ सारेरथिः // 670 // सुं गतावित्यस्मात् ण्यन्तादथिः प्रत्ययः स्यात् / सारथिः यन्ता / निषञ्जोर्घित् // 671 // निपूर्वात् षनं सङ्गे इत्यस्मात् घिदथिः प्रत्ययः स्यात् / निषङ्गथिः रुद्रः धनुर्धरश्च / पित्करणं गवार्थम् / उदर्तेर्णिद्वा // 672 // उत्पूर्वांत ऋक् गतावित्यस्मात अथिः प्रत्ययः स च णिद्वा स्यात् / उदारथिः विष्णुः / उदरथिः विप्रः काष्ठं समुद्रः अनवाश्च / ___ अतेरिथिः // 673 // अत् सातत्यगमने इत्यस्मादिथिः प्रत्ययः स्यात् / अतिथिः पात्रतमो भिक्षावृत्तिः। तनेर्डित् // 674 // तनूयी विस्तारे इत्यस्मात् डिदिथिः प्रत्ययः स्यात् / तिथिः प्रतिपदादिः। उषेरधिः / / 675 // उषू दाहे इत्यस्मादधिः प्रत्ययः स्यात् / ओषधिः रद्भिद्विशेषः / विदोरधिक् // 676 // विदक् ज्ञाने इत्यस्मात् किद्रधिः प्रत्ययः स्यात् / विद्रधिः व्याधिविशेषः / वीयुसुवह्यगिभ्यो निः // 677 // एभ्यो निः प्रत्ययः स्यात् / वींक् प्रजनादौ / वेनिः व्याधिः नदी च / युक् मिश्रणे / योनिः प्रजननमङ्गम् उत्पत्तिस्थानं च। पुंग्ट् अभिषवे। सोनिः सवनम् / वहीं प्रापणे। वह्निः पावकः बलीवर्दश्च / अग कुटिलायां गतौ / अग्निः पावकः / धूशाशीको ह्रस्वश्च // 678 // एभ्यो निः प्रत्ययो इस्वश्चैषां स्यात् / धृग्शू कम्पने / धुनिः नदी / शोंच तक्षणे। शनिः सौरिः। शी स्वप्ने / शिनिः यादवः वर्णश्च / लूधूप्रच्छिभ्यः कित् // 679 / / एभ्यः किनिः प्रत्ययः स्यात् / लूग्श छेदने। लूनिः लवनः / धूग्श् कम्पने / धूनिः वायुः। पच्छेत् ज्ञोप्सायाम् / पृश्निः वर्णः अल्पतनुः किरणः स्वर्गश्च / सादिवृत्यमिधम्यश्यटिकट्यवेरनिः // 380 // एभ्योऽनिः प्रत्ययः स्यात् / षद्ल विशरणादौ / सदनिः जलम् / तुङ् वर्तने / वर्तनिः पन्थाः देशनाम च /