SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 827 वातेर्णिद्वा // 657 // वाक् गतिगन्धनयोरित्यस्मादतिः प्रत्ययः स च गिद्वा स्यात् / वायतिः वातः / वातिः गन्धमिश्रपवनः / योः कित् // 658 // युक् मिश्रणे इत्यस्मादतिः प्रत्ययः कित् स्यात् / युवतिः तरुणी। ___पातेर्वा // 659 // पांक रक्षणे इत्यस्मादतिः प्रत्ययः स च किद् वा स्यात् / पतिः भर्ता / पातिः भर्ता रक्षिता प्रभुश्च / अगिविलिपुलिक्षिपेरस्तिक // 660 // एभ्यः किदस्तिः प्रत्ययः स्यात् / अग कुटिलायां गतौ। अगस्तिः। विलत् वरणे। विलस्तिः। पुल महत्त्वे / पुलस्तिः / लिपीत् प्रेरणे / लिपस्तिः। एते लौकिका ऋषयः। अगस्तिः वृक्षजातिश्च। गृधेर्गभ च // 661 // गृधूच् अभिकाङ्क्षायामित्यस्मादस्तिक् प्रत्ययो गभ् चास्यादेशः स्यात् / गभस्तिः रश्मिः / वस्यर्तिभ्यामातिः // 662 // आभ्यामातिः प्रत्ययः स्यात् / वसं निवासे / वसातयः जनपदः / ऋक् गतौ / अरातिः रिपुः / अभेर्यामाभ्याम् // 663 // अभिपूर्वाभ्यामाभ्यामातिः प्रत्यय: स्यात् / यांक पापणे / मांक माने / अभियातिः अभिमातिश्च शत्रुः / यजो य च // 664 // यजी देवपूजादावित्यस्मादातिः प्रत्ययोऽस्य च यकारोऽन्तादेशः स्यात् / ययातिः राजा।। वद्यविच्छदिभूभ्योऽन्तिः // 665 // एभ्योऽन्तिः प्रत्ययः स्यात् / वद व्यक्तायां वाचि / वदन्तिः कथा / अव रक्षणादिषु / अवन्तिः राजा / अवन्तयः जनपदः। छदण अपवारणे। युजादिविकल्पितणिजन्तवादण्यन्तः। छदन्तिः गृहच्छादनद्रव्यम् / भू सत्तायाम् / भवन्तिः कालः लोकस्थितिश्च / शकेरुन्तिः // 666 // शक्लंट शक्तावित्यस्मादुन्तिः प्रत्ययः स्यात् / शकुन्तिः पक्षी। नमो दागो डितिः // 667 // नपूर्वाद् इदांग्क् दाने इत्यस्मात् डिदितिः प्रत्ययः स्यात् / अदितिः देवमाता / देङः॥६६८॥ दे रक्षणे इत्यस्मात् डिदितिः प्रत्ययः स्यात् / दितिः असुरमाता। वीसज्यसिभ्यस्थिक् // 669 // एभ्यस्थिक् प्रत्ययः स्यात् / वींक् प्रजना
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy