________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 821 विदिः शिल्पी / वेदिः इज्यादिस्थानम् / वृतूङ् वर्तने / वृतिः कण्टकशाखावरणम् / निर्वृतिः सुखम् / वर्तिः द्रव्य दीपाकं च / तृभ्रम्यद्यापिदम्भिभ्यस्तित्तिरभृमाधापदेभाश्च // 611 // एभ्यः किदिः प्रत्यय एषां च यथासंख्यं तित्तिरभ्रमअधापदेभ इत्यादेशाः स्युः। तृ प्लवनतरणयोः। तित्तिरिः पक्षिजातिः प्रवक्ता च वेदशाखायाः / भ्रम् चलने / भृमिः वायुः हस्ती जलं च / बाहुलकाव भृमादेशाभावे भ्रमिः भ्रमः / अदंक भक्षणे। अधि उपरिभावे / अध्यागच्छति / आप्लंट् व्याप्तौ। अपि समुच्चयादौ / प्लक्षोऽपि, न्यग्रोधोऽपि / दम्भूट दम्भे / देभिः शरासनम् / ___ मनेरुदेतौ चास्य वा // 612 // मनिंच ज्ञाने इत्यस्मादिः प्रत्ययोऽकारस्य च उकारैकारौ वा स्याताम् / मुनिः ज्ञानवान् / मेनिः संकल्पः। मनिः धूमवतिः। क्रमितमिस्तम्भेरिच नमेस्तु वा // 613 // एभ्यः किदिः प्रत्ययोऽकारस्य चेकारः स्यात् नमेः पुनरकारस्येकारो विकल्पेन / क्रम् पादविक्षेपे / क्रिमिः क्षुद्रजन्तुः। तमूच काङ्क्षायाम् / तिमिः महामत्स्यः / स्तम्भिः सौत्रः / स्तिभिः केतकादिसूची हृदयं समुद्रश्च / णमं महत्वे / निमिः राजा / नमिः विद्याधराणामाधः तीर्थकरश्च / अम्भिकुण्ठिकम्प्यहिभ्यो नलुक् च // 614 // एभ्य इ. प्रत्ययो नकारस्य च लुक् स्यात् / अभुङ् शब्दे / अभि आभिमुख्येऽव्ययम् / अभ्यग्नि शलभाः पतन्ति / कुटु आलस्ये च / कुठिः वृक्षः पापं वृषलः देहः गेहं कुठारश्च / कपुङ चलने / कपिः अग्निः वानरश्च / अहुङ् गतौ / अहिः सर्पः वृत्रः वपश्च / उभेदत्रौ च // 615 // उभत पूरणे इत्यस्मादिः प्रत्ययोऽस्य च द्व त्र इत्यादेशौ स्याताम् / द्वौ / द्वितीयः / द्विमुनि व्याकरणस्य / त्रयः / तृतीयः / त्रिमुनि व्याकरणस्य / नीवीप्रहृभ्यो डित् // 616 // एभ्यो डिदिः प्रत्ययः स्यात् / णींग पापणे। निवसति / वीक प्रजनादौ / विः तन्तुवायः पक्षी उपसर्गश्च / यथा-विभवति / हंग् हरणे प्रपूर्वः / पहिः कूपः उदपानं च / वौ रिचेः स्वरान्नोऽन्तश्च // 617 // वावुपसर्गे सति रिचंपी विरेचने इत्यस्मादिः प्रत्ययः स्वरात्परो नोऽन्तश्च / विरिश्चिः ब्रह्मा / कमिवमिजमिघसिशलिफलितलितडिवजिवजिवजिराजिपणिव