________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 819 यत्यञ्जिमस्यसिवनिध्वनिसनिगमितमिग्रन्थिश्रन्थिजनिमण्यादिभ्यः // // 607 / / एभ्य इ. प्रत्ययः स्यात् / पदिंच गतौ / पदिः राशिः मोक्षमार्गश्च। पठ व्यक्तायां वाचि / पठिः विद्वान् / डुपचीं पाके / पचिः अग्निः / ष्ठल स्थाने / स्थलिः दानशाला / हल विलेखने / हलिः हलः। कलि शब्दसंख्यानयोः। कलिः कलहः युगं च / बल प्राणनधान्यावरोधयोः / बलिः देवतोपहारः दानवश्व / वलि वल्लि संवरणे / वलिः खक्तरङ्गः। वल्लिः हिरण्यशलाका लता च / पल्ल गतौ। पल्लिः मुनीनामाश्रमः व्याधसंस्त्यायश्च / कटे वर्षावरणयोः। कटिः स्वाङ्गम् / चटण् भेदे / चटिः वर्णः। वट वेष्टने / वटिः गुलिका तन्तुः सूना च नाभिः वर्णश्च / बधि बन्धने। बधिः कियाशब्दः / गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु / गाधिः विश्वामित्रपिता / अर्च पूजायाम् / अचिः अग्निशिखा / वदुङ् स्तुत्यभिवादनयोः / वन्दिः ग्रहणिः / टुनदु समृद्धौ / नन्दिः ईश्वरप्रतीहारः भेरिश्च / अव रक्षणादौ / अविः ऊर्णायुः / वशक् कान्तौ / वशिः वशिता / वाशिच शब्दे / वाशिः प्रकान्तिः रश्मिः गोमायुः अग्निः शब्दः प्रजनप्राप्ता चतुष्पात् जलदश्च / काशृङ् दीप्तौ / काशयः जनपदः / छर्दण् वमने / छर्दिः वमनम् / तन्त्रिण कुटुम्बधारणे / तन्त्रिः वीणासूत्रम् / मन्त्रिण गुप्तभाषणे ! मन्त्रिः सचिवः / खडुण् भेदे / खण्डिः प्रद्वारम् / मडु भूषायाम् / मण्डिः मृद्भाजनपिधानम् / चडुङ् कोपे / चण्डिः भामिनी / यतैङ् प्रयत्ने / यतिः भिक्षुः। अञ्जोए व्यक्तिम्रक्षणगतिषु / अञ्जिः सजः पेषणी पेजः गतिश्च / समञ्जिः शिश्नः। मसैच परिणामे / मसिः शस्त्री। अमू क्षेपणे / असिः खड्गः / वनूयी याचने / वनिः साधुः याच्या खकुनिः अग्निश्च / ध्वन शब्दे / ध्वनिः नादः / षण भक्तौ / सनिः संभक्ता पन्था दानं म्लेच्छः नदीतटं च / गम्लं गतौ / गमिः आचार्यः / तमूच काङ्क्षायाम् / तमिः अलसः / ग्रन्थश संदर्भ, श्रन्थश् मोचनपतिहर्षयोः। ग्रन्थिः श्रन्थिश्च पर्व संध्यादि / जनैचि प्रादुर्भावे / जनिः वधूः कुलाङ्गना भगिनी प्रादुर्भावश्च / मण शब्दे / मणिः रत्नम् / आदिग्रहणात् वहीं प्रापणे / वहिः अश्वः / खाह भक्षणे / खादिः श्वा / दधि धारणे / दधि क्षीरविकारः / खल संचये च / खलिः पिण्याकः / शचि व्यक्तायां वाचि / शची इन्द्राणी / ' इतोऽत्यर्थात् ' इति गौरादित्वाद्वा डीः इत्यादयोऽपि भवन्ति / किलिपिलिपिशिचिटित्रुटिशुपिठतुण्डि कुण्डिमण्डिहुण्डिहिण्डिपि