________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 817 विलसति लटहः विलासवान् / ललिण् ईप्सायाम् / ललहः लीलावान् / पल गतौ / पलहः आवापः। कलि शब्दसंख्यानयोः / कलहः युद्धम् / अनक प्राणने / अनहः नीरोगः / रगे शङ्कायाम् / रगहः नटः / लगे सङ्गे / लगहः मन्दः। पुले कित् // 590 / / पुल महत्त्व इत्यस्मात् किदहः प्रत्ययः स्यात् / पुलहः प्रजापतिः। काटिशयिभ्य आहः // 591 // एभ्य आहः प्रत्ययः स्यात् / ग्ट वरणे / वराहः सूकरः। कटे वर्षावरणयोः। कटाहः कर्णवत् कालायसभाजनम् / शमूत्र उपशमे / शमाहः आश्रमः। विलेः कित् // 592 / / विलत् वरणे इत्यस्मात् किदाहः प्रत्ययः स्यात् / विलाहः रहः। निर इण ऊहश् // 593 // निपूर्वात् इंण्क् गतावित्यस्माच्छिद्हः प्रत्ययः स्यात् / निर्वृहः सौधादिकाष्ठनिर्गमः / दस्त्यूहः // 594 // ददातेस्त्यूहः प्रत्ययः स्यात् / दात्यूहः पक्षिविशेषः / अनेरोकहः // 595 // अनक् पाणने इत्यस्मादोकहः प्रत्ययः स्यात् / 'अनोकहः वृक्षः / वलेरक्षः // 596 // वलि संवरणे इत्यस्मादक्षः प्रत्ययः स्यात् / वलक्षः शुक्लः। लाक्षाद्राक्षामिक्षादयः // 597 // लाक्षादयः शन्दा अक्षप्रत्ययान्ता निपात्यन्ते / लसेरा च / लाक्षा जनु / रसेन॑ च / द्राक्षा मृद्वीका / आयूर्वान्मृदेरत्यस्वरादेर्लुक् प्रत्ययादेरित्वं च / आमिक्षा हविर्विशेषः / आदिग्रहणात् चुप मन्दायां गतावित्यस्य चोक्षः ग्रामरागः शुद्धं च / एवं पीयूक्षादयोऽपि / ___ समिनिकषिभ्यामाः // 598 // संपूर्वादिण्क् गतावित्यस्मात् निपूर्वात् कष हिंसायामित्यस्माच आः प्रत्ययः स्यात् / समया निकषा पर्वतम् / समीपासूयावाचिनावेतौ। दिविपुरिदृषिमृषिभ्यः कित् // 899 // एभ्यः किदाः प्रत्ययः स्यात् / दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु / दिवा अहः / पुरत् अग्रगमने / पुरा भूतकालवाची / वृष सेचने / वृषा प्रबलमित्यर्थः / मृषीच तितिक्षायाम् / मृषा अभूतमित्यर्थः। वेः साहाभ्याम् // 600 / विपूर्वाभ्यां षोंच् अन्तकर्मणि, ओहांक त्यागे 103