________________ [ कृदन्ते 816 सिद्धहैमबृहत्मक्रिया. ___ सेर्डित् // 577 // पिंग्ट् बन्धने इत्यस्मात् डिदीसण् प्रत्ययः स्यात् / सीसं लोहजातिः। पेरुसः // 578 // त्रपौषि लज्जायामित्यस्मादुसः प्रत्ययः स्यात् / त्रपुसं कर्कटिका / विधानसामर्थ्यात् पखाभावः। पटिवीभ्यां टिसडिसौ // 579 // आभ्यां यथासंख्यं टिसो डित् इसश्च प्रत्ययः स्यात् / पट गतौ / पहिसः आयुधविशेषः। वींक् प्रजनादौ / बिसं मृणालम् / तसः // 580 // पटिवीभ्यां तसः प्रत्ययः स्यात् / पट्टसः त्रिशूलम् / वेतसः वानीरः। ___ इणः // 581 // एतेस्तसः प्रत्ययः स्यात् / एतसः अध्वर्यः / पीङो नसक् // 582 / / पीच पाने इत्यस्मात् किन्नसः प्रत्ययः स्यात् / पीनसः श्लेष्मा। कृकुरिभ्यां पासः // 583 // आभ्यां पासः प्रत्ययः स्यात् / डुकंग करणे / कर्पासः पिचुप्रकृतिः वीरुच्च / कुरत् शन्दे / कूर्पासः कन्चुकः। कालकुलिभ्यां मासक् // 584 // आभ्यां कित् मासः प्रत्ययः स्यात्। कलि शब्दसंख्यानयोः। कल्मासं शबलम् / कुल बन्धुसंस्त्यानयोः / कुल्मासः अर्धखिन्न माषादि। अलेरम्बुसः // 585 // अली भूषणादावित्यस्मादम्बुसः प्रत्ययः स्यात् / अलम्बुसः यातुधानः / अलम्बुसा नाम ओषधिः। लूगो हः // 586 // लुनातेईः प्रत्ययः स्यात् / लोहं सुवर्णादि / . कितो गे च // 587 // कित् निवासे इत्यस्मात् हः प्रत्ययोऽस्य च गे इत्यादेशः / गेहं गृहम् / हिंसेः सिम् च // 588 // हिमुप् हिंसायामित्यस्माद्धः प्रत्ययोऽस्य च सिमित्यादेशः। सिंहः मृगराजः / कृपकटिपटिमटिलटिललिपलिकल्यनिरगिलगेरहः॥५८९॥ एभ्योऽहः प्रत्ययः स्यात् / कृत् विक्षेपे / करहः धान्यावपनम् / पृश् पालनपूरणयोः। परहः शंकरः। कटे वर्षाचरणयोः। कटहः पर्जन्यः कर्णवच्च कालायसभाजनम् / पट गतौ / पटहः वाद्यविशेषः / मट सादे, सौत्रः / मटहः हस्खः / लट बाल्पे / लटति