________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. ऋपनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः // 557 // एभ्य उषः प्रत्ययः स्यात् / ऋशु गतौ / अरुषः व्रणः हयः आदित्यः वर्णः रोषश्च / पृश् पालनपूरणयोः / परुषः कर्कशः। णहीच बन्धने / नहुषः पूर्वो राजा / हनंक हिंसागत्योः / हनुषः क्रोधः राक्षसश्च / कलि शब्दसंख्यानयोः / कलुषम् अप्रसन्नं पापं च / चल कम्पने / चलुषः वायुः। चप सान्वने / चपुषः शकुनिः / डुवपीं बोजसन्ताने / वपुषः वर्णः / कृपौङ् सामर्थे / कल्पुषः क्रियानुगुणः। हय क्लान्तौ च / हयुषा ओषधिः / विदिपृभ्यां कित् // 558 // आभ्यां किदुषः प्रत्ययः स्यात् / विदक् ज्ञाने। विदुषः विद्वान् / पृश् पालनपूरणयोः / पुरुषः पुमान् आत्मा च / ___ अपुषधनुषादयः // 559 // अपुषादयः शब्दा उपप्रत्ययान्ता निपात्यन्ते / आमोतेईस्वश्च / अपुषः अग्निः सरोगश्च / दधातेर्धन् च / धनुषः शैलः। आदिग्रहणाल्लसुषादयो भवन्ति। ___खलिफलिपृकृजलम्बिमञ्जिपीविहन्यङ्गिमाङ्गिगण्ड्यर्तिभ्य ऊषः // 560 // एभ्य ऊपः प्रत्ययः स्यात् / खल संचये च / खलूपः म्लेच्छनातिः / फल निष्पत्तौ / फलूषः वीरुत् / ग्ट वरणे। वरूषः भाजनम् / पश् पालनपूरणयोः / परूषः वृक्षविशेषः / कृत् विक्षेपे / करूषाः जनपदः। जृषच जरसि / जरूषः आदित्यः / लबुङ् अवलंसने च / लम्बूषः नीरकदम्बः निचुलश्च / मञ्जिः पीयिश्च सौत्रौ / मञ्जूषा काष्ठकोष्ठः। पीयूषं प्रत्याप्रसवक्षीरविकारः अमृतं घृतं च / हनंक हिंसागत्योः। हनूषः राक्षसः / अगु गतौ। अङ्गुषः शकुनिजातिः हस्ती बाणः वेगश्च / मगु गतौ / मञ्जूषः जलचरशकुनिः। गडु वदनैकदेशे / गण्डूषः द्रवकवलः / ऋक् गतौ / अरूषः रविः / ___ कोरदूषाटरूषकारूषशलूपिञ्जूषादयः // 561 // एते ऊपप्रत्ययान्ता निपात्यन्ते / कुरेरदोऽन्तश्च / कोरदूषः कोद्रवः। अटेराङ्पूर्वस्य चारोऽन्तश्च / आटरूषः वासः। अटनं रूपतीति तु अटरूषः पृषोदरादित्वात् / कृगो वृद्धिश्च / कारूषाः जनपदः / शलेरै चातः / शैलूपः नटः। पिजुण हिंसादौ / पिञ्जूषः कर्णशष्कुल्याभोगः। आदिशब्दात् प्रत्यूषाभ्यूषादयो भवन्ति / / ___ कलेर्मषः // 562 // कलि शब्दसंख्यानयोरित्यस्मान्मषः प्रत्ययः स्यात् / कल्मषं पापम् /