SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ 812 सिद्धहैमबृहत्मक्रिया. [कृदन्ते युजलेराषः // 545 / / आभ्यामाषः प्रत्ययः स्यात् / युक् मिश्रणे / यवाषः दुरालभा / जल घात्ये / जलापं जलम् / ___ अरिषः // 546 // कंक् गतावित्यस्माण्ण्यन्तादिषः प्रत्ययः स्यात् / अर्पिषम् आर्द्रमांसम् / मह्यविभ्यां टित् // 547 // आभ्यां टिदिषः प्रत्ययः स्यात् / मह पूजायाम् / महिषः सैरिभः राजा च / महिषी राजपत्नी सैरिभी च / अव रक्षणादौ / अविषः समुद्रः राजा पर्वतश्च / अविषी द्यौः भूमिः गङ्गा च / __ रुहेवृद्धिश्च // 548 // रुहं जन्मनीत्यस्मात् टिदिषः प्रत्ययः स्यात् वृद्धिश्चास्य / रौहिषं तृणविशेषः अन्तरिक्षं च / रौहिषः मृगः / रौहिषी वात्या मृगी दूर्वा च / अमिमभ्यां णित् // 549 // आभ्यामिषः प्रत्ययः स्यात स च णित् / अम गतौ / आमिषं भक्ष्यम् / मृश् हिंसायाम् / मारिषः हिंस्रः। . तवेर्वा // 50 // तव गतावित्यस्मात् सौत्रात् टिदिषः प्रत्ययः स्यात् स च णिद्वा / ताविषः तविषश्च स्वर्गः। ताविषं तविषं च बलं तेजश्च / ताविषी तविषी ___ कलेः किल्ब् च // 51 // कलि शब्दसंख्यानयोरित्यस्मात् टिदिषः प्रत्ययोऽस्य च किल्व् इत्यादेशः स्यात् / किल्विषं पापम् / किल्बिषी वेश्या रात्रिः पिशाची च / __ नमो व्यथेः // 552 // नपूर्वाद् व्यथिए भयचलनयोरित्यस्मात् टिदिषः प्रत्ययः स्यात् / अव्यथिषः क्षेत्रज्ञः सूर्यः अग्निश्च / अव्यथिषी पृथिवी। कृतृभ्यामीषः / / 553 // आभ्यामीषः प्रत्ययः स्यात् / कृत् विक्षेपे / करीषः शुष्कगोमयरजः / तृ प्लवनतरणयोः / तरीषः समर्थः स्तम्भः प्लवश्च / ... ऋजिशृपृभ्यः कित् // 554 // एभ्य; किदीषः प्रत्ययः स्यात् / ऋजि गत्यादौ / ऋजीपः अवस्करः। ऋजीषं धनम् (उपहतम् ) / शृश हिंसायाम् / शिरीषः वृक्षः / पृश् पालनपूरणयोः / पुरीषं शकृत् / अमेर्वरादिः // 555 // अम गतावित्यस्माद् वरादिरीषः प्रत्ययः स्यात् / अम्बरीष भ्राष्ट्रं व्योम च / अम्बरीषः आदिनृपः / उषेोऽन्तश्च // 556 // उषू दाहे इत्यस्मादीषः प्रत्ययो णकारश्चान्तः स्यात् / उष्णीषः मुकुटं शिरोवेष्टनं च /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy