SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ 811 उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. स्यात् / कुल बन्धुसंस्त्यानयोः / कुलिशं वज्रम् / कनै दीप्त्यादौ, कण शन्दे / कनिशं कणिशं च सस्यमञ्जरी / पल गतौ / पलिशं यत्र स्थिवा मृगा व्यापाद्यन्ते / वड आग्रहणे, सौत्रः / बडिशं मत्स्यवेधनम् / बलेणिद्वा // 536 / / बल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्यया स च णिद्वा स्यात् / बालिशः मूर्खः / बलिशः मूर्खः / बलिशं बडिशम् / तिनिशेतिशादयः // 537 // तिनिशादयः शब्दाः किशमत्ययान्ता निपात्यन्ते / तनेरिश्चातः / तिनिश; वृक्षः / इणस्तोऽन्तश्च / इतिशः गोत्रकृद् ऋषिः / आदिग्रहणादन्येऽपि। __ मस्ज्याङ्किभ्यामुशः // 538 // आभ्यामुशः प्रत्ययः स्यात् / टुमस्जोंद शुद्धौ / 'न्यक्रूद्गमेघादयः' इति गः / मद्गुशः नकुलः / अकुङ् लक्षणे / अड्कुशः सृणिः / ___अर्तीणभ्यां पिशतशो // 539 // आभ्यां यथासंख्यं पिश तश इत्येतो प्रत्ययौ स्याताम् / ऋक् गतौ / अर्पिशम् आर्द्रमांसम् बालवत्साया दुग्धं च / इंण्क् गतौ / एतशः अश्वः ऋषिः वायुः अग्निः अर्कश्च / वृकृतृमीङ्माभ्यः षः // 540 / / एभ्यः षः प्रत्ययः स्यात् / ग्ट वरणे / वर्षः भर्ता / वर्ष संवत्सरः। वर्षाः ऋतुः / कृत् विक्षेपे / कर्षः उन्मानविशेषः। तृ प्लवनतरणयोः। तर्षः प्लवः हर्षश्च / मीञ्च हिंसायाम् / मेषः उरभ्रः। मांक माने / माषः धान्यविशेषः हेमपरिमाणं च / योरूच्च वा // 541 // युक् मिश्रण इत्यस्मात् षः प्रत्यय ऊकारश्चान्तादेशों वा। यूषःपेयविशेषः / यूषा छाया / योषा स्त्री। ___ स्नुपूसूम्वर्कलूभ्यः कित् // 542 // स्वादिभ्योऽर्कपूर्वाञ्च लुनातेः कित् षः प्रत्ययः स्यात् / स्नुक् प्रस्रवणे / स्नुषा पुत्रवधूः / पूग्श् पवने / पूषः पवनभाण्डं शूर्पादि / पूत् प्रेरणे / सूपः बलम् / मूङ् बन्धने / मूषा लोहक्षरणभाजनम् / लूग्श् छेदने अर्कपूर्वः। अर्कलूषः ऋषिः। श्लिषेः शे च // 543 // श्लिपंच आलिङ्गने इत्यस्मात् षः प्रत्ययोऽस्य च शे इत्यादेशः स्यात् / शेषः नागराजः। कोरषः // 544 // कुंड शब्दे इत्यस्मादषः प्रत्ययः स्यात् / कवषः क्रोधी शब्दकारश्च /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy